१ सूर्यः
अथ सूर्यमन्त्रप्रारंभः
ॐ अस्य श्रीसूर्यमहामन्त्रस्य हिरण्यस्तूप ऋषिः
।
तृष्टुप्
छन्दः । सूर्यो देवता
। घृणिरिति बीजम् ।
सूर्य
इति शक्तिः । आदित्य इति
कीलकम् ।
सूर्यग्रहप्रसादसिद्ध्यर्थे
जपे विनियोगः ।
सूर्याय
अङ्गुष्ठाभ्यां नमः ।
तेजोमूर्तये
तर्जनीभ्यां स्वाहा ।
वरदाय
मध्यमाभ्यां वषट् ।
हंसाय
अनामिकाभ्यां हुम् ।
शान्ताय
कनिष्ठिकाभ्यां वौषट् ।
कर्मसाक्षिणे
करतलकरपृष्ठाभ्यां फट् ।
सूर्याय
हृदयाय नमः ।
तेजोमूर्तये
शिरसे स्वाहा ।
वरदाय
शिखायै वषट् ।
हंसाय
कवचाय हुम् ।
शान्ताय
नेत्रत्रयाय वौषट् ।
कर्मसाक्षिणे
अस्त्राय फट् ।
भूर्भुवःसुवरोमिति
दिग्बन्धः ।
ध्यानम्
।
धृतपद्मद्वयं
भानुं तेजोमण्डलमध्यगम् ।
सर्वाधिव्याधिशमनं
छायाश्लिष्टतनुं भजे ॥ १॥
पद्मासनः
पद्मकरो द्विबाहुः पद्मद्युतिः सप्ततुरङ्गवाहः ।
दिवाकरो
लोकगुरुः किरीटी मयि प्रसादं विदधातु
देवः ॥ २॥
द्विभुजं
पद्महारं च वरदं मकुटान्वितम्
।
ध्यायेद्दिवाकरं
देवं सर्वाभीष्टफलप्रदम् ॥ ३॥
लं पृथिव्यात्मने गन्धं समर्पयामि ।
हं आकाशात्मने पुष्पाणि समर्पयामि ।
यं वाय्वात्मने धूपमाघ्रापयामि ।
रं वह्न्यात्मने दीपं दर्शयामि ।
वं अमृतात्मने अमृतं निवेदयामि ।
सं सर्वात्मने सर्वोपचारान् समर्पयामि ॥
मूलमन्त्रः
ॐ आस॒`त्येन॒ रज॑सा॒
वर्त॑मानो निवेश॑यन्न॒मृतं॒ मर्त्यं॑ च ।
हि॒रण्॒यये॑न
सवि॒तारथे॒नादे॒वो या॑ति॒ भुव॑नावि॒पश्यन्॑ । (यथाशक्ति जपेत्)
सूर्याय
हृदयाय नमः ।
तेजोमूर्तये
शिरसे स्वाहा ।
वरदाय
शिखायै वषट् ।
हंसाय
कवचाय हुम् ।
शान्ताय
नेत्रत्रयाय वौषट् ।
कर्मसाक्षिणे
अस्त्राय फट् ।
भूर्भुवःसुवरोमिति
दिग्विमोकः ।
ध्यानम्
।
धृतपद्मद्वयं
भानुं तेजोमण्डलमध्यगम् ।
सर्वाधिव्याधिशमनं
छायाश्लिष्टतनुं भजे ॥ १॥
पद्मासनः
पद्मकरो द्विबाहुः पद्मद्युतिः सप्ततुरङ्गवाहः ।
दिवाकरो
लोकगुरुः किरीटी मयि प्रसादं विदधातु
देवः ॥ २॥
द्विभुजं
पद्महारं च वरदं मकुटान्वितम्
।
ध्यायेद्दिवाकरं
देवं सर्वाभीष्टफलप्रदम् ॥ ३॥
लं पृथिव्यात्मने गन्धं समर्पयामि ।
हं आकाशात्मने पुष्पाणि समर्पयामि ।
यं वाय्वात्मने धूपमाघ्रापयामि ।
रं वह्न्यात्मने दीपं दर्शयामि ।
वं अमृतात्मने अमृतं निवेदयामि ।
सं सर्वात्मने सर्वोपचारान् समर्पयामि ॥
इति
श्रीसूर्यमहामन्त्रः
_________________________________________
२ चन्द्रः
अथ सोममन्त्रप्रारंभः
ॐ अस्य श्रीसोममहामन्त्रस्य गौतम ऋषिः
। गायत्री छन्दः ।
सोमो
देवता । सां बीजम्
। सीं शक्तिः ।
सूं कीलकम् ।
मम श्रीसोमग्रहप्रसादसिद्ध्यर्थे
जपे विनियोगः ।
सोमाय
अङ्गुष्ठाभ्यां नमः ।
निशाकराय
तर्जनीभ्यां स्वाहा ।
क्षीरोदार्णवसंभवाय
मध्यमाभ्यां वषट् ।
लक्ष्मीसहोदराय
अनामिकाभ्यां हुम् ।
तारकेशाय
कनिष्ठिकाभ्यां वौषट् ।
सुधामूर्तये
करतलकरपृष्ठाभां फट् ।
सोमाय
हृदयाय नमः ।
निशाकराय
शिरसे स्वाहा ।
क्षीरोदार्णवसंभवाय
शिखायै वषट् ।
लक्ष्मीसहोदराय
कवचाय हुम् ।
तारकेशाय
नेत्रत्रयाय वौषट् ।
सुधामूर्तये
अस्त्राय फट् ।
भूर्भुवः
सुवरोमिति दिग्बन्धः ।
ध्यानम्
गदाधरधरं
देवं श्वेतवर्णं निशाकरम् ।
ध्यायेदमृतसंभूतं
सर्वकामफलप्रदम् ॥
लं पृथिव्यात्मने गन्धं समर्पयामि ।
हं आकाशात्मने पुष्पाणि समर्पयामि ।
यं वाय्वात्मने धूपमाघ्रापयामि ।
रं वह्न्यात्मने दीपं दर्शयामि ।
वं अमृतात्मने अमृतोपहारं निवेदयामि ।
सं सर्वात्मने सर्वोपचारान् समर्पयामि ॥
मूलमन्त्रः
ॐ आप्या॑यस्व॒ समे॑तु ते वि॒श्वतः॑ सोम॒
वृष्णि॑यम् ।
भवा॒
वाज॑स्य सङ्ग॒थे ॥
(यथाशक्ति जपेत्)
सोमाय
हृदयाय नमः ।
निशाकराय
शिरसे स्वाहा ।
क्षीरोदार्णवसंभवाय
शिखायै वषट् ।
लक्ष्मीसहोदराय
कवचाय हुम् ।
तारकेशाय
नेत्रत्रयाय वौषट् ।
सुधामूर्तये
अस्त्राय फट् ।
भूर्भुवःसुवरोमिति
दिग्विमोकः ।
ध्यानं
गदाधरधरं
देवं श्वेतवर्णं निशाकरम् ।
ध्यायेदमृतसंभूतं
सर्वकामफलप्रदम् ॥
लं पृथिव्यात्मने गन्धं समर्पयामि ।
हं आकाशात्मने पुष्पाणि समर्पयामि ।
यं वाय्वात्मने धूपमाघ्रापयामि ।
रं वह्न्यात्मने दीपं दर्शयामि ।
वं अमृतात्मने अमृतोपहारं निवेदयामि ।
सं सर्वोपचारान् समर्पयामि ॥
इति
सोममन्त्रः
_________________________________________
३ अङ्गारकः
अथ अङ्गारकमहामन्त्रप्रारंभः
ॐ अस्य श्रीअङ्गारकमहामन्त्रस्य विरूपाक्ष ऋषिः
।
गायत्री
छन्दः । अङ्गारको देवता
।
मम श्रीअङ्गारकग्रहप्रसादसिद्ध्यर्थे
जपे विनियोगः ।
अङ्गारकाय
अङ्गुष्ठाभ्यां नमः ।
धरणीसुताय
तर्जनीभ्यां नमः ।
रक्तवाससे
मध्यमाभ्यां नमः ।
रक्तलोचनाय
अनामिकाभ्यां नमः ।
शक्तिधराय
कनिष्ठिकाभ्यां नमः ।
कर्मभावनाय
करतलकरपृष्ठाभ्यां नमः ।
अङ्गारकाय
हृदयाय नमः ।
धरणीसुताय
शिरसे स्वाहा ।
रक्तवाससे
शिखायै वषट् ।
रक्तलोचनाय
कवचाय हुम् ।
शक्तिधराय
नेत्रत्रयाय वौषट् ।
कर्मभावनाय
अस्त्राय फट् ।
भूर्भुवःसुवरोमिति
दिग्बन्धः ।
ध्यानम्
रक्तमाल्यांबरधरं
हेमरूपं चतुर्भुजम् ।
शक्तिरूपं
गदापद्मं धारयन्तं करांबुजैः ॥
लं पृथिव्यात्मने गन्धं समर्पयामि ।
हं आकाशात्मने पुष्पाणि समर्पयामि ।
यं वाय्वात्मने धूपमाघ्रापयामि ।
रं वह्न्यात्मने दीपं दर्शयामि ।
वं अमृतात्मने अमृतोपहारं निवेदयामि ।
सं सर्वात्मने सर्वोपचारान् समर्पयामि ॥
मूलमन्त्रः
ॐ अ॒ग्निर्मू॒र्धा दि॒वः क॒कुत्पतिः॑ पृथि॒व्या अ॒यम् ।
अ॒पाग्वम्
रेताग्वम्॑सि जिन्वति ॥ (यथाशक्ति जपेत्)
अङ्गारकाय
हृदयाय नमः ।
धरणीसुताय
शिरसे स्वाहा ।
रक्तवाससे
शिखायै वषट् ।
रक्तलोचनाय
कवचाय हुम् ।
शक्तिधराय
नेत्रत्रयाय वौषट् ।
कर्मभावनाय
अस्त्राय फट् ।
भूर्भुवःसुवरोमिति
दिग्विमोकः ।
ध्यानम्
रक्तमाल्यांबरधरं
हेमरूपं चतुर्भुजम् ।
शक्तिरूपं
गदापद्मं धारयन्तं करांबुजैः ॥
लं पृथिव्यात्मने गन्धं समर्पयामि ।
हं आकाशात्मने पुष्पाणि समर्पयामि ।
यं वाय्वात्मने धूपमाघ्रापयामि ।
रं वह्न्यात्मने दीपं दर्शयामि ।
वं अमृतात्मने अमृतोपहारं निवेदयामि ।
सं सर्वात्मने सर्वोपचारान् समर्पयामि ॥
इति
अङ्गारकमहामन्त्रः
_________________________________________
४ बुधः
अथ बुधमहामन्त्रप्रारंभः
ॐ अस्य श्रीबुधमहामन्त्रस्य मधुच्छन्द ऋषिः
। तृष्टुप्छन्दः ।
बुधो
देवता । बुधप्रीत्यर्थे जपे
विनियोगः ।
बुधाय
अङ्गुष्ठाभ्यां नमः ।
सौम्याय
तर्जनीभ्यां नमः ।
सिंहारूढाय
मध्यमाभ्यां नमः ।
चतुर्बाहवे
अनामिकाभ्यां नमः ।
गदाधराय
कनिष्ठिकाभ्यां नमः ।
सोमपुत्राय
करतलकरपृष्ठाभ्यां नमः ।
बुधाय
हृदयाय नमः ।
सौम्याय
शिरसे स्वाहा ।
सिंहारूढाय
शिखायै वषट् ।
चतुर्बाहवे
कवचाय हुम् ।
गदाधराय
नेत्रत्रयाय वौषट् ।
सोमपुत्राय
अस्त्राय फट् ।
भूर्भुवःसुवरोमिति
दिग्बन्धः ।
ध्यानम्
पीतांबरः
पीतवपुः किरीटी चतुर्भुजो दण्डधरश्च सौम्यः ।
चर्मासिधृत्
सोमसुतः सदा मे सिंहाधिरूढो
वरदो बुधः स्यात् ॥
लं पृथिव्यात्मने गन्धं समर्पयामि ।
हं आकाशात्मने पुष्पाणि समर्पयामि ।
यं वाय्वात्मने धूपमाघ्रापयामि ।
रं वह्न्यात्मने दीपं दर्शयामि ।
वं अमृतात्मने अमृतोपहारं निवेदयामि ।
सं सर्वात्मने सर्वोपचारान् समर्पयामि ॥
मूलमन्त्रः
ॐ उद्बु॑द्ध्यस्वाग्ने॒ प्रति॑जागृह्येनमिष्टापू॒र्ते स॒ग्वम्सृ॑जेथाम॒यं
च॑ ।
पुनः॑
कृ॒ण्वग्वम्स्त्वा॑ पि॒तरं॒ युवा॑नम॒न्वाताग्वम्॑सी॒त्त्वयि॒
तन्तु॑मे॒तम् ॥ (यथाशक्ति जपेत्)
बुधाय
हृदयाय नमः ।
सौम्याय
शिरसे स्वाहा ।
सिंहारूढाय
शिखायै वषट् ।
चतुर्बाहवे
कवचाय हुम् ।
गदाधराय
नेत्रत्रयाय वौषट् ।
सोमपुत्राय
अस्त्राय फट् ।
भूर्भुवःसुवरोमिति
दिग्विमोकः ।
ध्यानम्
पीतांबरः
पीतवपुः किरीटी चतुर्भुजो दण्डधरश्च सौम्यः ।
चर्मासिधृत्
सोमसुतः सदा मे सिंहाधिरूढो
वरदो बुधः स्यात् ॥
लं पृथिव्यात्मने गन्धं समर्पयामि ।
हं आकाशात्मने पुष्पाणि समर्पयामि ।
यं वाय्वात्मने धूपमाघ्रापयामि ।
रं वह्न्यात्मने दीपं दर्शयामि ।
वं अमृतात्मने अमृतोपहारं निवेदयामि ।
सं सर्वात्मने सर्वोपचारान् समर्पयामि ॥
इति
बुधमहामन्त्रः
_________________________________________
५ बृहस्पतिः
अथ बृहस्पतिमन्त्रप्रारंभः
ॐ अस्य श्रीबृहस्पतिमहामन्त्रस्य गृत्स महर्षिः । जगतीछन्दः ।
बृहस्पतिर्देवता
। बृहस्पतिप्रसादसिद्ध्यर्थे जपे विनियोगः ।
गुरवे
अङ्गुष्ठाभ्यां नमः ।
वाक्पतये
तर्जनीभ्यां नमः ।
गीर्वाणवन्दिताय
मध्यमाभ्यां नमः ।
वरदाय
अनामिकाभ्यां नमः ।
सुराचार्याय
कनिष्ठिकाभ्यां नमः ।
कमण्डलुधराय
करतलकरपृष्ठाभ्यां नमः ।
गुरवे
हृदयाय नमः ।
वाक्पतये
शिरसे स्वाहा ।
गीर्वाणवन्दिताय
शिखायै वषट् ।
वरदाय
कवचाय हुम् ।
सुराचार्याय
नेत्रत्रयाय वौषट् ।
कमण्डलुधराय
अस्त्राय फट् ।
भूर्भुवःसुवरोमिति
दिग्बन्धः ।
ध्यानम्
वराक्षमालिकादण्डकमण्डलुधरं
विभुम् ।
पुष्परागाङ्कितं
पीतं वरदं भावयेद्गुरुम् ॥
लं पृथिव्यात्मने गन्धं समर्पयामि ।
हं आकाशात्मने पुष्पाणि समर्पयामि ।
यं वाय्वात्मने धूपमाघ्रापयामि ।
रं वह्न्यात्मने दीपं दर्शयामि ।
वं अमृतात्मने अमृतोपहारं निवेदयामि ।
सं सर्वात्मने सर्वोपचारान् समर्पयामि ॥
मूलमन्त्रः
ॐ बृह॑स्पते॒ अति॒यद॒र्यो अर्हा॑'द्द्यु॒मद्वि॒भाति॒ क्रतु॑म॒ज्जने॑षु ।
यद्दी॒दय॒च्छव॑सर्तप्रजात॒
तद॒स्मासु द्रवि॑णं धेहि चि॒त्रम् ॥ (यथाशक्ति जपेत्)
गुरवे
हृदयाय नमः ।
वाक्पतये
शिरसे स्वाहा ।
गीर्वाणवन्दिताय
शिखायै वषट् ।
वरदाय
कवचाय हुम् ।
सुराचर्याय
नेत्रत्रयाय वौषट् ।
कमण्डलुधराय
अस्त्राय फट् ।
भूर्भुवःसुवरोमिति
दिग्विमोकः ।
ध्यानम्
वराक्षमालिकादण्डकमण्डलुधरं
विभुम् ।
पुष्परागाङ्कितं
पीतं वरदं भावयेद्गुरुम् ॥
लं पृथिव्यात्मने गन्धं समर्पयामि ।
हं आकाशात्मने पुष्पाणि समर्पयामि ।
यं वाय्वात्मने धूपमाघ्रापयामि ।
रं वह्न्यात्मने दीपं दर्शयामि ।
वं अमृतात्मने अमृतोपहारं निवेदयामि ।
सं सर्वात्मने सर्वोपचारान् समर्पयामि ॥
इति
बृहस्पतिमन्त्रः
_________________________________________
६ शुक्रः
अथ शुक्रमहामन्त्रप्रारंभः
ॐ अस्य श्रीशुक्रमहामन्त्रस्य भरद्वाज ऋषिः
।
त्रिष्टुप्छन्दः
। शुक्रो देवता ।
मम श्रीशुक्रग्रहप्रसादसिद्ध्यर्थे
जपे विनियोगः ।
दानवपूजिताय
अङ्गुष्ठाभ्यां नमः ।
दैत्याचार्याय
तर्जनीभ्यां नमः ।
वरदाय
मध्यमाभ्यां नमः ।
श्वेतवस्त्राय
अनामिकाभ्यां नमः ।
शुक्राय
कनिष्ठिकाभ्यां नमः ।
कमण्डलुधराय
करतलकरपृष्ठाभ्यां नमः ।
दानवपूजिताय
हृदयाय नमः ।
दैत्याचार्याय
शिरसे स्वाहा ।
वरदाय
शिखायै वषट् ।
श्वेतवस्त्राय
कवचाय हुम् ।
शुक्राय
नेत्रत्रयाय वौषट् ।
कमण्डलुधराय
अस्त्राय फट् ।
भूर्भुवःसुवरोमिति
दिग्बन्धः ।
ध्यानम्
जटिलं
चाक्षसूत्रं च वरदण्डकमण्डलुम् ।
श्वेतवस्त्रोज्ज्वनं
शुक्रं सर्वदानवपूजितम् ॥
लं पृथिव्यात्मने गन्धं समर्पयामि ।
हं आकाशात्मने पुष्पाणि समर्पयामि ।
यं वाय्वात्मने धूपमाघ्रापयामि ।
रं वह्न्यात्मने दीपं दर्शयामि ।
वं अमृतात्मने अमृतोपहारं निवेदयामि ।
सं सर्वात्मने सर्वोपचारान् समर्पयामि ॥
मूलमन्त्रः
ॐ प्रवः॑ शु॒क्राय॑ भा॒नवे॑ भरद्वँ ह॒व्यम् म॒तिं चा॒ग्नये॒ सुपू॑तम् ।
यो दैव्या॑नि॒ मानु॑षा जनूँष्य॒न्तर्विश्वा॑नि वि॒द्मना॒ जिगा॑ति ॥
अथवा
ॐ शु॒क्रं ते॑ अ॒न्यद् य॑ज॒तन्ते॑
अन्य॒द्विषु॑रूपे॒ अह॑नी॒द्यौरि॑वासि
।
विश्वा॒
हि मा॒या अव॑सि स्वधा वो भ॒द्रा ते॑
पूषन्नि॒हरा॒तिर॑स्तु ॥
(यथाशक्ति
जपेत्)
दानवपूजिताय
हृदयाय नमः ।
दैत्याचार्याय
शिरसे स्वाहा ।
वरदाय
शिखायै वषट् ।
श्वेतवस्त्राय
कवचाय हुम् ।
शुक्राय
नेत्रत्रयाय वौषट् ।
कमण्डलुधराय
अस्त्राय फट् ।
भूर्भुवःसुवरोमिति
दिग्विमोकः ।
ध्यानम्
जटिलं
चाक्षसूत्रं च वरदण्डकमण्डलुम् ।
श्वेतवस्त्रोज्ज्वनं
शुक्रं सर्वदानवपूजितम् ॥
लं पृथिव्यात्मने गन्धं समर्पयामि ।
हं आकाशात्मने पुष्पाणि समर्पयामि ।
यं वाय्वात्मने धूपमाघ्रापयामि ।
रं वह्न्यात्मने दीपं दर्शयामि ।
वं अमृतात्मने अमृतोपहारं निवेदयामि ।
सं सर्वात्मने सर्वोपचारान् समर्पयामि ॥
इति
शुक्रमहामन्त्रः
_________________________________________
७ शनैश्चरः
अथ शनैश्चरमहामन्त्रप्रारंभः
ॐ अस्य श्रीशनैश्चरमहामन्त्रस्य उरुमित्र ऋषिः
।
गायत्रीछन्दः
। शनैश्चरो देवता ।
मम श्रीशनैश्चरग्रहप्रसादसिद्ध्यर्थे
जपे विनियोगः ।
शनैश्चराय
अङ्गुष्ठाभ्यां नमः ।
मन्दगतये
तर्जनीभ्यां नमः ।
अधोक्षजाय
मध्यमाभ्यां नमः ।
सौरये
अनामिकाभ्यां नमः ।
अभयङ्कराय
कनिष्ठिकाभ्यां नमः ।
ऊर्ध्वरोम्णे
करतलकरपृष्ठाभ्यां नमः ।
शनैश्चराय
हृदयाय नमः ।
मन्दगतये
शिरसे स्वाहा ।
अधोक्षजाय
शिखायै वषट् ।
सौरये
कवचाय हुम् ।
अभयङ्कराय
नेत्रत्रयाय वौषट् ।
ऊर्ध्वरोम्णे
अस्त्राय फट् ।
भूर्भुवःसुवरोमिति
दिग्बन्धः ।
ध्यानम्
नीलाम्बरो
नीलवपुः किरीटी गृध्रस्थितस्त्रासकरो धनुष्मान् ।
चतुर्भुजः
सूर्यसुतः प्रशान्तः सदास्तु मह्यं वरदः प्रसन्नः ॥
लं पृथिव्यात्मने गन्धं समर्पयामि ।
हं आकाशात्मने पुष्पाणि समर्पयामि ।
यं वाय्वात्मने धूपमाघ्रापयामि ।
रं वह्न्यात्मने दीपं दर्शयामि ।
वं अमृतात्मने अमृतोपहारं निवेदयामि ।
सं सर्वात्मने सर्वोपचारान् समर्पयामि ॥
मूलमन्त्रः
ॐ शं नो॑ दे॒वीर॒भिष्ट॑य॒
आपो॑ भवन्तु पी॒तये॑' ।
शं योर॒भिस्र॑वन्तु नः । (यथाशक्ति
जपेत्)
शनैश्चराय
हृदयाय नमः ।
मन्दगतये
शिरसे स्वाहा ।
अधोक्षजाय
शिखायै वषट् ।
सौरये
कवचाय हुम् ।
अभयङ्कराय
नेत्रत्रयाय वौषट् ।
ऊर्ध्वरोम्णे
अस्त्राय फट् ।
भूर्भुवःसुवरोमिति
दिग्विमोकः ।
ध्यानम्
नीलाम्बरो
नीलवपुः किरीटी गृध्रस्थितस्त्रासकरो धनुष्मान् ।
चतुर्भुजः
सूर्यसुतः प्रशान्तः सदास्तु मह्यं वरदः प्रसन्नः ॥
लं पृथिव्यात्मने गन्धं समर्पयामि ।
हं आकाशात्मने पुष्पाणि समर्पयामि ।
यं वाय्वात्मने धूपमाघ्रापयामि ।
रं वह्न्यात्मने दीपं दर्शयामि ।
वं अमृतात्मने अमृतोपहारं निवेदयामि ।
सं सर्वात्मने सर्वोपचारान् समर्पयामि ॥
इति
शनैश्चरमहामन्त्रः
_________________________________________
८ राहुः
अथ राहुमहामन्त्रप्रारंभः
ॐ अस्य श्रीराहुमहामन्त्रस्य वामदेव ऋषिः
। गायत्रीछन्दः ।
राहुर्देवता
। राहुप्रसादसिद्ध्यर्थे जपे विनियोगः ।
धूम्रवर्णाय
अङ्गुष्ठाभ्यां नमः ।
कराळवदनाय
तर्जनीभ्यां नमः ।
खण्डवराय
मध्यमाभ्यां नमः ।
महाशूराय
अनामिकाभ्यां नमः ।
त्रिशूलधराय
कनिष्ठिकाभ्यां नमः ।
नीलसिंहासनस्थाय
करतलकरपृष्ठाभ्यां नमः ।
धूम्रवर्णाय
हृदयाय नमः ।
कराळवदनाय
शिरसे स्वाहा ।
खण्डवराय
शिखायै वषट् ।
महाशूराय
कवचाय हुम् ।
त्रिशूलधराय
नेत्रत्रयाय वौषट् ।
नीलसिंहासनस्थाय
अस्त्राय फट् ।
भूर्भुवःसुवरोमिति
दिग्बन्धः ।
ध्यानम्
कराळवदनं
खड्गचर्मशूलवरान्वितम् ।
नीलसिंहासनं
राहुं ध्यायेद्रोगप्रशान्तये ॥
लं पृथिव्यात्मने गन्धं समर्पयामि ।
हं आकाशात्मने पुष्पाणि समर्पयामि ।
यं वाय्वात्मने धूपमाघ्रापयामि ।
रं वह्न्यात्मने दीपं दर्शयामि ।
वं अमृतात्मने अमृतोपहारं निवेदयामि ।
सं सर्वात्मने सर्वोपचारान् समर्पयामि ॥
मूलमन्त्रः
ॐ कया॑न्श्चि॒त्र आभु॑वदू॒ती स॒दावृ॑ध॒स्सखा॑' ।
कया॒
शचि॑ष्ठया वृ॒ता ॥ (यथाशक्ति जपेत्)
धूम्रवर्णाय
हृदयाय नमः ।
कराळवदनाय
शिरसे स्वाहा ।
खण्डवराय
शिखायै वषट् ।
महाशूराय
कवचाय हुम् ।
त्रिशूलधराय
नेत्रत्रयाय वौषट् ।
नीलसिंहासनस्थाय
अस्त्राय फट् ।
भूर्भुवःसुवरोमिति
दिग्विमोकः ।
ध्यानम्
कराळवदनं
खड्गचर्मशूलवरान्वितम् ।
नीलसिंहासनं
राहुं ध्यायेद्रोगप्रशान्तये ॥
लं पृथिव्यात्मने गन्धं समर्पयामि ।
हं आकाशात्मने पुष्पाणि समर्पयामि ।
यं वाय्वात्मने धूपमाघ्रापयामि ।
रं वह्न्यात्मने दीपं दर्शयामि ।
वं अमृतात्मने अमृतोपहारं निवेदयामि ।
सं सर्वात्मने सर्वोपचारान् समर्पयामि ॥
इति
राहुमहामन्त्रः
_________________________________________
९ केतुः
अथ केतुमहामन्त्रप्रारंभः
ॐ अस्य श्रीकेतुमहामन्त्रस्य मयच्छन्द ऋषिः
।
गायत्री
छन्दः । केतुर्देवता ।
मम श्रीकेतुग्रहप्रसादसिद्ध्यर्थे
जपे विनियोगः ।
धूम्रवर्णय
अङ्गुष्ठाभ्यां नमः ।
द्विबाहवे
तर्जनीभ्यां नमः ।
केतवे
मध्यमाभ्यां नमः ।
विकृताननाय
अनामिकाभ्यां नमः ।
गृध्रासनाय
कनिष्ठिकाभ्यां नमः ।
लंबकाय
करतलकरपृष्ठाभ्यां नमः ।
धूम्रवर्णाय
हृदयाय नमः ।
द्विबाहवे
शिरसे स्वाहा ।
केतवे
शिखायै वषट् ।
विकृताननाय
कवचाय हुम् ।
गृध्रासनाय
नेत्रत्रयाय वौषट् ।
लंबकाय
अस्त्राय फट् ।
भूर्भुवःसुवरोमिति
दिग्बन्धः ।
ध्यानम्
धूम्रवर्णं
द्विबाहुं च केतुं च
विकृताननम् ।
गृध्रासनं
गतं नित्यं ध्यायेत्सर्वफलाप्तये ॥
लं पृथिव्यात्मने गन्धं समर्पयामि ।
हं आकाशात्मने पुष्पाणि समर्पयामि ।
यं वाय्वात्मने धूपमाघ्रापयामि ।
रं वह्न्यात्मने दीपं दर्शयामि ।
वं अमृतात्मने अमृतोपहारं निवेदयामि ।
सं सर्वात्मने सर्वोपचारान् समर्पयामि ॥
मूलमन्त्रः
ॐ के॒तुं कृ॒ण्वन्न॑ के॒तवे॒ पेशो॑ मर्या अपे॒शसे॑' ।
स मु॒षद्भि॑रजायथाः ॥ (यथाशक्ति जपेत्)
धूम्रवर्णाय
हृदयाय नमः ।
द्विबाहवे
शिरसे स्वाहा ।
केतवे
शिखायै वषट् ।
विकृताननाय
कवचाय हुम् ।
गृध्रासनाय
नेत्रत्रयाय वौषट् ।
लंबकाय
अस्त्राय फट् ।
भूर्भुवःसुवरोमिति
दिग्विमोकः ।
ध्यानम्
धूम्रवर्णं
द्विबाहुं च केतुं च
विकृताननम् ।
गृध्रासनं
गतं नित्यं ध्यायेत्सर्वफलाप्तये ॥
लं पृथिव्यात्मने गन्धं समर्पयामि ।
हं आकाशात्मने पुष्पाणि समर्पयामि ।
यं वाय्वात्मने धूपमाघ्रापयामि ।
रं वह्न्यात्मने दीपं दर्शयामि ।
वं अमृतात्मने अमृतोपहारं निवेदयामि ।
सं सर्वात्मने सर्वोपचारान् समर्पयामि ॥
इति
केतुमहामन्त्रः