Thursday, January 18, 2018

॥ नवग्रह जपमन्त्राः ॥


  सूर्यः
अथ सूर्यमन्त्रप्रारंभः
अस्य श्रीसूर्यमहामन्त्रस्य हिरण्यस्तूप ऋषिः
तृष्टुप् छन्दः सूर्यो देवता घृणिरिति बीजम्
सूर्य इति शक्तिः आदित्य इति कीलकम्
सूर्यग्रहप्रसादसिद्ध्यर्थे जपे विनियोगः
सूर्याय अङ्गुष्ठाभ्यां नमः
तेजोमूर्तये तर्जनीभ्यां स्वाहा
वरदाय मध्यमाभ्यां वषट्
हंसाय अनामिकाभ्यां हुम्
शान्ताय कनिष्ठिकाभ्यां वौषट्
कर्मसाक्षिणे करतलकरपृष्ठाभ्यां फट्
सूर्याय हृदयाय नमः
तेजोमूर्तये शिरसे स्वाहा
वरदाय शिखायै वषट्
हंसाय कवचाय हुम्
शान्ताय नेत्रत्रयाय वौषट्
कर्मसाक्षिणे अस्त्राय फट्
भूर्भुवःसुवरोमिति दिग्बन्धः

ध्यानम्
धृतपद्मद्वयं भानुं तेजोमण्डलमध्यगम्
सर्वाधिव्याधिशमनं छायाश्लिष्टतनुं भजे १॥
पद्मासनः पद्मकरो द्विबाहुः पद्मद्युतिः सप्ततुरङ्गवाहः
दिवाकरो लोकगुरुः किरीटी मयि प्रसादं विदधातु देवः २॥
द्विभुजं पद्महारं वरदं मकुटान्वितम्
ध्यायेद्दिवाकरं देवं सर्वाभीष्टफलप्रदम् ३॥

लं पृथिव्यात्मने गन्धं समर्पयामि
हं आकाशात्मने पुष्पाणि समर्पयामि
यं वाय्वात्मने धूपमाघ्रापयामि
रं वह्न्यात्मने दीपं दर्शयामि
वं अमृतात्मने अमृतं निवेदयामि
सं सर्वात्मने सर्वोपचारान् समर्पयामि

मूलमन्त्रः
आस॒`त्येन॒ रज॑सा॒ वर्त॑मानो निवेश॑यन्न॒मृतं॒ मर्त्यं॑
हि॒रण्॒यये॑न सवि॒तारथे॒नादे॒वो या॑ति॒ भुव॑नावि॒पश्यन्॑ (यथाशक्ति जपेत्)
सूर्याय हृदयाय नमः
तेजोमूर्तये शिरसे स्वाहा
वरदाय शिखायै वषट्
हंसाय कवचाय हुम्
शान्ताय नेत्रत्रयाय वौषट्
कर्मसाक्षिणे अस्त्राय फट्
भूर्भुवःसुवरोमिति दिग्विमोकः

ध्यानम्
धृतपद्मद्वयं भानुं तेजोमण्डलमध्यगम्
सर्वाधिव्याधिशमनं छायाश्लिष्टतनुं भजे १॥
पद्मासनः पद्मकरो द्विबाहुः पद्मद्युतिः सप्ततुरङ्गवाहः
दिवाकरो लोकगुरुः किरीटी मयि प्रसादं विदधातु देवः २॥
द्विभुजं पद्महारं वरदं मकुटान्वितम्
ध्यायेद्दिवाकरं देवं सर्वाभीष्टफलप्रदम् ३॥

लं पृथिव्यात्मने गन्धं समर्पयामि
हं आकाशात्मने पुष्पाणि समर्पयामि
यं वाय्वात्मने धूपमाघ्रापयामि
रं वह्न्यात्मने दीपं दर्शयामि
वं अमृतात्मने अमृतं निवेदयामि
सं सर्वात्मने सर्वोपचारान् समर्पयामि
इति श्रीसूर्यमहामन्त्रः
_________________________________________
चन्द्रः
अथ सोममन्त्रप्रारंभः
अस्य श्रीसोममहामन्त्रस्य गौतम ऋषिः गायत्री छन्दः
सोमो देवता सां बीजम् सीं शक्तिः सूं कीलकम्
मम श्रीसोमग्रहप्रसादसिद्ध्यर्थे जपे विनियोगः
सोमाय अङ्गुष्ठाभ्यां नमः
निशाकराय तर्जनीभ्यां स्वाहा
क्षीरोदार्णवसंभवाय मध्यमाभ्यां वषट्
लक्ष्मीसहोदराय अनामिकाभ्यां हुम्
तारकेशाय कनिष्ठिकाभ्यां वौषट्
सुधामूर्तये करतलकरपृष्ठाभां फट्
सोमाय हृदयाय नमः
निशाकराय शिरसे स्वाहा
क्षीरोदार्णवसंभवाय शिखायै वषट्
लक्ष्मीसहोदराय कवचाय हुम्
तारकेशाय नेत्रत्रयाय वौषट्
सुधामूर्तये अस्त्राय फट्
भूर्भुवः सुवरोमिति दिग्बन्धः

ध्यानम्
गदाधरधरं देवं श्वेतवर्णं निशाकरम्
ध्यायेदमृतसंभूतं सर्वकामफलप्रदम्

लं पृथिव्यात्मने गन्धं समर्पयामि
हं आकाशात्मने पुष्पाणि समर्पयामि
यं वाय्वात्मने धूपमाघ्रापयामि
रं वह्न्यात्मने दीपं दर्शयामि
वं अमृतात्मने अमृतोपहारं निवेदयामि
सं सर्वात्मने सर्वोपचारान् समर्पयामि

मूलमन्त्रः
आप्या॑यस्व॒ समे॑तु ते वि॒श्वतः॑ सोम॒ वृष्णि॑यम्
भवा॒ वाज॑स्य सङ्ग॒थे ॥   (यथाशक्ति जपेत्)

सोमाय हृदयाय नमः
निशाकराय शिरसे स्वाहा
क्षीरोदार्णवसंभवाय शिखायै वषट्
लक्ष्मीसहोदराय कवचाय हुम्
तारकेशाय नेत्रत्रयाय वौषट्
सुधामूर्तये अस्त्राय फट्
भूर्भुवःसुवरोमिति दिग्विमोकः

ध्यानं
गदाधरधरं देवं श्वेतवर्णं निशाकरम्
ध्यायेदमृतसंभूतं सर्वकामफलप्रदम्

लं पृथिव्यात्मने गन्धं समर्पयामि
हं आकाशात्मने पुष्पाणि समर्पयामि
यं वाय्वात्मने धूपमाघ्रापयामि
रं वह्न्यात्मने दीपं दर्शयामि
वं अमृतात्मने अमृतोपहारं निवेदयामि
सं सर्वोपचारान् समर्पयामि
इति सोममन्त्रः
_________________________________________
  अङ्गारकः
अथ अङ्गारकमहामन्त्रप्रारंभः
अस्य श्रीअङ्गारकमहामन्त्रस्य विरूपाक्ष ऋषिः
गायत्री छन्दः अङ्गारको देवता
मम श्रीअङ्गारकग्रहप्रसादसिद्ध्यर्थे जपे विनियोगः
अङ्गारकाय अङ्गुष्ठाभ्यां नमः
धरणीसुताय तर्जनीभ्यां नमः
रक्तवाससे मध्यमाभ्यां नमः
रक्तलोचनाय अनामिकाभ्यां नमः
शक्तिधराय कनिष्ठिकाभ्यां नमः
कर्मभावनाय करतलकरपृष्ठाभ्यां नमः
अङ्गारकाय हृदयाय नमः
धरणीसुताय शिरसे स्वाहा
रक्तवाससे शिखायै वषट्
रक्तलोचनाय कवचाय हुम्
शक्तिधराय नेत्रत्रयाय वौषट्
कर्मभावनाय अस्त्राय फट्
भूर्भुवःसुवरोमिति दिग्बन्धः

ध्यानम्
रक्तमाल्यांबरधरं हेमरूपं चतुर्भुजम्
शक्तिरूपं गदापद्मं धारयन्तं करांबुजैः

लं पृथिव्यात्मने गन्धं समर्पयामि
हं आकाशात्मने पुष्पाणि समर्पयामि
यं वाय्वात्मने धूपमाघ्रापयामि
रं वह्न्यात्मने दीपं दर्शयामि
वं अमृतात्मने अमृतोपहारं निवेदयामि
सं सर्वात्मने सर्वोपचारान् समर्पयामि

मूलमन्त्रः
अ॒ग्निर्मू॒र्धा दि॒वः क॒कुत्पतिः॑ पृथि॒व्या अ॒यम्
अ॒पाग्वम् रेताग्वम्॑सि जिन्वति (यथाशक्ति जपेत्)
अङ्गारकाय हृदयाय नमः
धरणीसुताय शिरसे स्वाहा
रक्तवाससे शिखायै वषट्
रक्तलोचनाय कवचाय हुम्
शक्तिधराय नेत्रत्रयाय वौषट्
कर्मभावनाय अस्त्राय फट्
भूर्भुवःसुवरोमिति दिग्विमोकः

ध्यानम्
रक्तमाल्यांबरधरं हेमरूपं चतुर्भुजम्
शक्तिरूपं गदापद्मं धारयन्तं करांबुजैः

लं पृथिव्यात्मने गन्धं समर्पयामि
हं आकाशात्मने पुष्पाणि समर्पयामि
यं वाय्वात्मने धूपमाघ्रापयामि
रं वह्न्यात्मने दीपं दर्शयामि
वं अमृतात्मने अमृतोपहारं निवेदयामि
सं सर्वात्मने सर्वोपचारान् समर्पयामि
इति अङ्गारकमहामन्त्रः
_________________________________________
  बुधः
अथ बुधमहामन्त्रप्रारंभः
अस्य श्रीबुधमहामन्त्रस्य मधुच्छन्द ऋषिः तृष्टुप्छन्दः
बुधो देवता बुधप्रीत्यर्थे जपे विनियोगः
बुधाय अङ्गुष्ठाभ्यां नमः
सौम्याय तर्जनीभ्यां नमः
सिंहारूढाय मध्यमाभ्यां नमः
चतुर्बाहवे अनामिकाभ्यां नमः
गदाधराय कनिष्ठिकाभ्यां नमः
सोमपुत्राय करतलकरपृष्ठाभ्यां नमः
बुधाय हृदयाय नमः
सौम्याय शिरसे स्वाहा
सिंहारूढाय शिखायै वषट्
चतुर्बाहवे कवचाय हुम्
गदाधराय नेत्रत्रयाय वौषट्
सोमपुत्राय अस्त्राय फट्
भूर्भुवःसुवरोमिति दिग्बन्धः

ध्यानम्
पीतांबरः पीतवपुः किरीटी चतुर्भुजो दण्डधरश्च सौम्यः
चर्मासिधृत् सोमसुतः सदा मे सिंहाधिरूढो वरदो बुधः स्यात्

लं पृथिव्यात्मने गन्धं समर्पयामि
हं आकाशात्मने पुष्पाणि समर्पयामि
यं वाय्वात्मने धूपमाघ्रापयामि
रं वह्न्यात्मने दीपं दर्शयामि
वं अमृतात्मने अमृतोपहारं निवेदयामि
सं सर्वात्मने सर्वोपचारान् समर्पयामि

मूलमन्त्रः
उद्बु॑द्ध्यस्वाग्ने॒ प्रति॑जागृह्येनमिष्टापू॒र्ते स॒ग्वम्सृ॑जेथाम॒यं च॑
पुनः॑ कृ॒ण्वग्वम्स्त्वा॑ पि॒तरं॒   युवा॑नम॒न्वाताग्वम्॑सी॒त्त्वयि॒ तन्तु॑मे॒तम् (यथाशक्ति जपेत्)

बुधाय हृदयाय नमः
सौम्याय शिरसे स्वाहा
सिंहारूढाय शिखायै वषट्
चतुर्बाहवे कवचाय हुम्
गदाधराय नेत्रत्रयाय वौषट्
सोमपुत्राय अस्त्राय फट्
भूर्भुवःसुवरोमिति दिग्विमोकः

ध्यानम्
पीतांबरः पीतवपुः किरीटी चतुर्भुजो दण्डधरश्च सौम्यः
चर्मासिधृत् सोमसुतः सदा मे सिंहाधिरूढो वरदो बुधः स्यात्

लं पृथिव्यात्मने गन्धं समर्पयामि
हं आकाशात्मने पुष्पाणि समर्पयामि
यं वाय्वात्मने धूपमाघ्रापयामि
रं वह्न्यात्मने दीपं दर्शयामि
वं अमृतात्मने अमृतोपहारं निवेदयामि
सं सर्वात्मने सर्वोपचारान् समर्पयामि
इति बुधमहामन्त्रः
_________________________________________
  बृहस्पतिः
अथ बृहस्पतिमन्त्रप्रारंभः
अस्य श्रीबृहस्पतिमहामन्त्रस्य गृत्स महर्षिः जगतीछन्दः
बृहस्पतिर्देवता बृहस्पतिप्रसादसिद्ध्यर्थे जपे विनियोगः
गुरवे अङ्गुष्ठाभ्यां नमः
वाक्पतये तर्जनीभ्यां नमः
गीर्वाणवन्दिताय मध्यमाभ्यां नमः
वरदाय अनामिकाभ्यां नमः
सुराचार्याय कनिष्ठिकाभ्यां नमः
कमण्डलुधराय करतलकरपृष्ठाभ्यां नमः
गुरवे हृदयाय नमः
वाक्पतये शिरसे स्वाहा
गीर्वाणवन्दिताय शिखायै वषट्
वरदाय कवचाय हुम्
सुराचार्याय नेत्रत्रयाय वौषट्
कमण्डलुधराय अस्त्राय फट्
भूर्भुवःसुवरोमिति दिग्बन्धः

ध्यानम्
वराक्षमालिकादण्डकमण्डलुधरं विभुम्
पुष्परागाङ्कितं पीतं वरदं भावयेद्गुरुम्

लं पृथिव्यात्मने गन्धं समर्पयामि
हं आकाशात्मने पुष्पाणि समर्पयामि
यं वाय्वात्मने धूपमाघ्रापयामि
रं वह्न्यात्मने दीपं दर्शयामि
वं अमृतात्मने अमृतोपहारं निवेदयामि
सं सर्वात्मने सर्वोपचारान् समर्पयामि

मूलमन्त्रः
बृह॑स्पते॒ अति॒यद॒र्यो अर्हा॑'द्द्यु॒मद्वि॒भाति॒ क्रतु॑म॒ज्जने॑षु
यद्दी॒दय॒च्छव॑सर्तप्रजात॒ तद॒स्मासु द्रवि॑णं धेहि चि॒त्रम् (यथाशक्ति जपेत्)

गुरवे हृदयाय नमः
वाक्पतये शिरसे स्वाहा
गीर्वाणवन्दिताय शिखायै वषट्
वरदाय कवचाय हुम्
सुराचर्याय नेत्रत्रयाय वौषट्
कमण्डलुधराय अस्त्राय फट्
भूर्भुवःसुवरोमिति दिग्विमोकः

ध्यानम्
वराक्षमालिकादण्डकमण्डलुधरं विभुम्
पुष्परागाङ्कितं पीतं वरदं भावयेद्गुरुम्

लं पृथिव्यात्मने गन्धं समर्पयामि
हं आकाशात्मने पुष्पाणि समर्पयामि
यं वाय्वात्मने धूपमाघ्रापयामि
रं वह्न्यात्मने दीपं दर्शयामि
वं अमृतात्मने अमृतोपहारं निवेदयामि
सं सर्वात्मने सर्वोपचारान् समर्पयामि
इति बृहस्पतिमन्त्रः
_________________________________________
  शुक्रः
अथ शुक्रमहामन्त्रप्रारंभः
अस्य श्रीशुक्रमहामन्त्रस्य भरद्वाज ऋषिः
त्रिष्टुप्छन्दः शुक्रो देवता
मम श्रीशुक्रग्रहप्रसादसिद्ध्यर्थे जपे विनियोगः
दानवपूजिताय अङ्गुष्ठाभ्यां नमः
दैत्याचार्याय तर्जनीभ्यां नमः
वरदाय मध्यमाभ्यां नमः
श्वेतवस्त्राय अनामिकाभ्यां नमः
शुक्राय कनिष्ठिकाभ्यां नमः
कमण्डलुधराय करतलकरपृष्ठाभ्यां नमः
दानवपूजिताय हृदयाय नमः
दैत्याचार्याय शिरसे स्वाहा
वरदाय शिखायै वषट्
श्वेतवस्त्राय कवचाय हुम्
शुक्राय नेत्रत्रयाय वौषट्
कमण्डलुधराय अस्त्राय फट्
भूर्भुवःसुवरोमिति दिग्बन्धः

ध्यानम्
जटिलं चाक्षसूत्रं वरदण्डकमण्डलुम्
श्वेतवस्त्रोज्ज्वनं शुक्रं सर्वदानवपूजितम्

लं पृथिव्यात्मने गन्धं समर्पयामि
हं आकाशात्मने पुष्पाणि समर्पयामि
यं वाय्वात्मने धूपमाघ्रापयामि
रं वह्न्यात्मने दीपं दर्शयामि
वं अमृतात्मने अमृतोपहारं निवेदयामि
सं सर्वात्मने सर्वोपचारान् समर्पयामि

मूलमन्त्रः
प्रवः॑ शु॒क्राय॑ भा॒नवे॑ भरद्वँ ह॒व्यम् म॒तिं चा॒ग्नये॒ सुपू॑तम्
यो दैव्या॑नि॒ मानु॑षा जनूँष्य॒न्तर्विश्वा॑नि वि॒द्मना॒ जिगा॑ति

अथवा
शु॒क्रं ते॑ अ॒न्यद् य॑ज॒तन्ते॑ अन्य॒द्विषु॑रूपे॒ अह॑नी॒द्यौरि॑वासि
विश्वा॒ हि मा॒या अव॑सि स्वधा वो भ॒द्रा ते॑ पूषन्नि॒हरा॒तिर॑स्तु  (यथाशक्ति जपेत्)

दानवपूजिताय हृदयाय नमः
दैत्याचार्याय शिरसे स्वाहा
वरदाय शिखायै वषट्
श्वेतवस्त्राय कवचाय हुम्
शुक्राय नेत्रत्रयाय वौषट्
कमण्डलुधराय अस्त्राय फट्
भूर्भुवःसुवरोमिति दिग्विमोकः

ध्यानम्
जटिलं चाक्षसूत्रं वरदण्डकमण्डलुम्
श्वेतवस्त्रोज्ज्वनं शुक्रं सर्वदानवपूजितम्

लं पृथिव्यात्मने गन्धं समर्पयामि
हं आकाशात्मने पुष्पाणि समर्पयामि
यं वाय्वात्मने धूपमाघ्रापयामि
रं वह्न्यात्मने दीपं दर्शयामि
वं अमृतात्मने अमृतोपहारं निवेदयामि
सं सर्वात्मने सर्वोपचारान् समर्पयामि
इति शुक्रमहामन्त्रः
_________________________________________
  शनैश्चरः
अथ शनैश्चरमहामन्त्रप्रारंभः
अस्य श्रीशनैश्चरमहामन्त्रस्य उरुमित्र ऋषिः
गायत्रीछन्दः शनैश्चरो देवता
मम श्रीशनैश्चरग्रहप्रसादसिद्ध्यर्थे जपे विनियोगः
शनैश्चराय अङ्गुष्ठाभ्यां नमः
मन्दगतये तर्जनीभ्यां नमः
अधोक्षजाय मध्यमाभ्यां नमः
सौरये अनामिकाभ्यां नमः
अभयङ्कराय कनिष्ठिकाभ्यां नमः
ऊर्ध्वरोम्णे करतलकरपृष्ठाभ्यां नमः
शनैश्चराय हृदयाय नमः
मन्दगतये शिरसे स्वाहा
अधोक्षजाय शिखायै वषट्
सौरये कवचाय हुम्
अभयङ्कराय नेत्रत्रयाय वौषट्
ऊर्ध्वरोम्णे अस्त्राय फट्
भूर्भुवःसुवरोमिति दिग्बन्धः

ध्यानम्
नीलाम्बरो नीलवपुः किरीटी गृध्रस्थितस्त्रासकरो धनुष्मान्
चतुर्भुजः सूर्यसुतः प्रशान्तः सदास्तु मह्यं वरदः प्रसन्नः

लं पृथिव्यात्मने गन्धं समर्पयामि
हं आकाशात्मने पुष्पाणि समर्पयामि
यं वाय्वात्मने धूपमाघ्रापयामि
रं वह्न्यात्मने दीपं दर्शयामि
वं अमृतात्मने अमृतोपहारं निवेदयामि
सं सर्वात्मने सर्वोपचारान् समर्पयामि

मूलमन्त्रः
शं नो॑ दे॒वीर॒भिष्ट॑य॒ आपो॑ भवन्तु पी॒तये॑'
शं योर॒भिस्र॑वन्तु नः (यथाशक्ति जपेत्)

शनैश्चराय हृदयाय नमः
मन्दगतये शिरसे स्वाहा
अधोक्षजाय शिखायै वषट्
सौरये कवचाय हुम्
अभयङ्कराय नेत्रत्रयाय वौषट्
ऊर्ध्वरोम्णे अस्त्राय फट्
भूर्भुवःसुवरोमिति दिग्विमोकः

ध्यानम्
नीलाम्बरो नीलवपुः किरीटी गृध्रस्थितस्त्रासकरो धनुष्मान्
चतुर्भुजः सूर्यसुतः प्रशान्तः सदास्तु मह्यं वरदः प्रसन्नः

लं पृथिव्यात्मने गन्धं समर्पयामि
हं आकाशात्मने पुष्पाणि समर्पयामि
यं वाय्वात्मने धूपमाघ्रापयामि
रं वह्न्यात्मने दीपं दर्शयामि
वं अमृतात्मने अमृतोपहारं निवेदयामि
सं सर्वात्मने सर्वोपचारान् समर्पयामि
इति शनैश्चरमहामन्त्रः
_________________________________________
  राहुः
अथ राहुमहामन्त्रप्रारंभः
अस्य श्रीराहुमहामन्त्रस्य वामदेव ऋषिः गायत्रीछन्दः
राहुर्देवता राहुप्रसादसिद्ध्यर्थे जपे विनियोगः
धूम्रवर्णाय अङ्गुष्ठाभ्यां नमः
कराळवदनाय तर्जनीभ्यां नमः
खण्डवराय मध्यमाभ्यां नमः
महाशूराय अनामिकाभ्यां नमः
त्रिशूलधराय कनिष्ठिकाभ्यां नमः
नीलसिंहासनस्थाय करतलकरपृष्ठाभ्यां नमः
धूम्रवर्णाय हृदयाय नमः
कराळवदनाय शिरसे स्वाहा
खण्डवराय शिखायै वषट्
महाशूराय कवचाय हुम्
त्रिशूलधराय नेत्रत्रयाय वौषट्
नीलसिंहासनस्थाय अस्त्राय फट्
भूर्भुवःसुवरोमिति दिग्बन्धः

ध्यानम्
कराळवदनं खड्गचर्मशूलवरान्वितम्
नीलसिंहासनं राहुं ध्यायेद्रोगप्रशान्तये

लं पृथिव्यात्मने गन्धं समर्पयामि
हं आकाशात्मने पुष्पाणि समर्पयामि
यं वाय्वात्मने धूपमाघ्रापयामि
रं वह्न्यात्मने दीपं दर्शयामि
वं अमृतात्मने अमृतोपहारं निवेदयामि
सं सर्वात्मने सर्वोपचारान् समर्पयामि

मूलमन्त्रः
कया॑न्श्चि॒त्र आभु॑वदू॒ती स॒दावृ॑ध॒स्सखा॑'
कया॒ शचि॑ष्ठया वृ॒ता (यथाशक्ति जपेत्)

धूम्रवर्णाय हृदयाय नमः
कराळवदनाय शिरसे स्वाहा
खण्डवराय शिखायै वषट्
महाशूराय कवचाय हुम्
त्रिशूलधराय नेत्रत्रयाय वौषट्
नीलसिंहासनस्थाय अस्त्राय फट्
भूर्भुवःसुवरोमिति दिग्विमोकः

ध्यानम्
कराळवदनं खड्गचर्मशूलवरान्वितम्
नीलसिंहासनं राहुं ध्यायेद्रोगप्रशान्तये

लं पृथिव्यात्मने गन्धं समर्पयामि
हं आकाशात्मने पुष्पाणि समर्पयामि
यं वाय्वात्मने धूपमाघ्रापयामि
रं वह्न्यात्मने दीपं दर्शयामि
वं अमृतात्मने अमृतोपहारं निवेदयामि
सं सर्वात्मने सर्वोपचारान् समर्पयामि
इति राहुमहामन्त्रः
_________________________________________
   केतुः
अथ केतुमहामन्त्रप्रारंभः
अस्य श्रीकेतुमहामन्त्रस्य मयच्छन्द ऋषिः
गायत्री छन्दः केतुर्देवता
मम श्रीकेतुग्रहप्रसादसिद्ध्यर्थे जपे विनियोगः
धूम्रवर्णय अङ्गुष्ठाभ्यां नमः
द्विबाहवे तर्जनीभ्यां नमः
केतवे मध्यमाभ्यां नमः
विकृताननाय अनामिकाभ्यां नमः
गृध्रासनाय कनिष्ठिकाभ्यां नमः
लंबकाय करतलकरपृष्ठाभ्यां नमः
धूम्रवर्णाय हृदयाय नमः
द्विबाहवे शिरसे स्वाहा
केतवे शिखायै वषट्
विकृताननाय कवचाय हुम्
गृध्रासनाय नेत्रत्रयाय वौषट्
लंबकाय अस्त्राय फट्
भूर्भुवःसुवरोमिति दिग्बन्धः

ध्यानम्
धूम्रवर्णं द्विबाहुं केतुं विकृताननम्
गृध्रासनं गतं नित्यं ध्यायेत्सर्वफलाप्तये

लं पृथिव्यात्मने गन्धं समर्पयामि
हं आकाशात्मने पुष्पाणि समर्पयामि
यं वाय्वात्मने धूपमाघ्रापयामि
रं वह्न्यात्मने दीपं दर्शयामि
वं अमृतात्मने अमृतोपहारं निवेदयामि
सं सर्वात्मने सर्वोपचारान् समर्पयामि

मूलमन्त्रः
के॒तुं कृ॒ण्वन्न॑ के॒तवे॒ पेशो॑ मर्या अपे॒शसे॑'
मु॒षद्भि॑रजायथाः (यथाशक्ति जपेत्)

धूम्रवर्णाय हृदयाय नमः
द्विबाहवे शिरसे स्वाहा
केतवे शिखायै वषट्
विकृताननाय कवचाय हुम्
गृध्रासनाय नेत्रत्रयाय वौषट्
लंबकाय अस्त्राय फट्
भूर्भुवःसुवरोमिति दिग्विमोकः

ध्यानम्
धूम्रवर्णं द्विबाहुं केतुं विकृताननम्
गृध्रासनं गतं नित्यं ध्यायेत्सर्वफलाप्तये

लं पृथिव्यात्मने गन्धं समर्पयामि
हं आकाशात्मने पुष्पाणि समर्पयामि
यं वाय्वात्मने धूपमाघ्रापयामि
रं वह्न्यात्मने दीपं दर्शयामि
वं अमृतात्मने अमृतोपहारं निवेदयामि
सं सर्वात्मने सर्वोपचारान् समर्पयामि

इति केतुमहामन्त्रः

Saturday, May 27, 2017

विराज गौ

गौ अर्थात् गमनशील या चलायमान

ज्यातिष्टोम में तम का त्याग या होम करना होता है, भूः स्वाहा
गोष्टोम में जडता का त्याग करना पडता है, भुवः स्वाहा
आयुष्टोम में भेदभाव का त्याग करना पडता है, स्वः स्वाहा
महामाया या षडरिपु के बाहर रहने वाले को इंद्रियजित् या जिन् या गौ कहा जाता है|
महामाया या गायत्री को गौ माना गया है|
गो का शब्दार्थ गं धातु के आधार पर इस प्रकार किया जाता है कि इनके द्वारा विषयों का ज्ञान होता है ( गम्यते विषयान् अनेन इति ) ।
गौः इति पृथिव्या नामधेयम्। 
वैदिक साहित्य में सूर्य की रश्मियों, पृथिवी, वाक् आदि को गो कहा गया है ।
इन्द्रियों को भी गो कहा जाता है ।
पृथिवी सूर्य की किरणों का ग्रहण करती है, अतः इस कारण उसे गो कहा जा सकता है ।
लेकिन यहां एक मूल तथ्य को समझ लेना होगा ।
एक सूर्य है, एक उसकी किरणें । दोनों अलग अलग हैं |
बाह्य जगत में तो यह समझना बहुत सरल है ।
लेकिन जब हम अध्यात्म में प्रवेश करते हैं तो वहां सूर्य को उदित करना कोई सरल कार्य नहीं है ।
छान्दोग्य उपनिषद २.१४.१ व २.१८.१ की तुलना करने पर यह निष्कर्ष निकलता है कि अध्यात्म में सूर्य के उदय होने से पूर्व की अवस्था का नाम अजा है ।
सूर्य के उदित होने की अवस्था का नाम अवि है ।
मध्याह्न की अवस्था का नाम गौ है ।
अपराह्न की अवस्था का नाम अश्व और सूर्यास्त की अवस्था का नाम पुरुष है ।
इस निष्कर्ष की पहली ३ अवस्थाओं - अजा, अवि व गौ की पुष्टि वैदिक संदर्भों द्वारा होती है ।
शेष २ - अश्व व पुरुष के बारे में स्थिति अन्वेषणीय है ।
वैदिक साहित्य में अजा को तापन तक सीमित रखा गया है ।
बहुत से साधकों को अपने ध्यान में गर्मी का अनुभव होता है, पसीने छूट जाते हैं ।
ऐसी स्थिति अजा के अन्तर्गत आती है ।,
उसके पश्चात् सूर्योदय की अवस्था आती है जहां लगता है कि मुख से प्रकाश निकल कर फैल रहा है । ऐसी स्थिति को अवि के अन्तर्गत रखा गया है । अवि को लोमशा कहा गया है - बालों वाली और अवि के इन लोमों का उपयोग सोम छानने में किया जाता है ।
इसके पश्चात् गौ की अवस्था आती है जब अपने अन्दर के सूर्य की किरणें निकलकर चारों ओर तापन करती हैं, वैसे ही जैसे बाहर के सूर्य की । इसे वैदिक साहित्य में सर्वाधिक महत्त्व दिया गया है । अश्व के संदर्भ में कहा गया है कि सूर्य अश्व बन कर आकाश में गति करता है । इस अवस्था की व्याख्या अपेक्षित है ।
वैदिक साहित्य में सार्वत्रिक रूप से उल्लेख आता है ( ऐतरेय ब्राह्मण २.८, तैत्तिरीय ब्राह्मण २.१.२.४ आदि ) कि देवों ने पुरुष रूप पशु का आलभन/वध किया ।
उसका मेध निकल कर अश्व में प्रवेश कर गया ।
अश्व का आलभन करने पर उसका मेध गौ में प्रवेश कर गया ।
गौ का आलभन करने पर उसका मेध अवि में प्रवेश कर गया, अवि का अजा में, अजा का पृथिवी में और पृथिवी का मेध व्रीहि और यव बना ।
इसी कारण से यज्ञ में पुरोडाश निर्माण हेतु व्रीहि का प्रयोग किया जाता है ।
जैमिनीय ब्राह्मण २.३४ में पृष्ठ्य षडह नामक यज्ञ के संदर्भ में गौ को रथन्तर, अश्व को बृहत्, अजा को वैरूप, अवि को वैराज, व्रीहि को शक्वरी तथा यव को रैवत कहा गया है ।
इस भूमिका के पश्चात् अब हम इस लेख के मूल विषय पर ध्यान देते हैं कि भारतीय साहित्य में क्षुधा की तृप्ति हेतु गौ के भक्षण का क्या अर्थ है ।
ऋग्वेद १०.४२.१०, १०.४३.१०, १०.४४.१० की ऋचाओं का कथन है कि गायों/गोभि: द्वारा हम अमति को पार करे और यव द्वारा सारी क्षुधा को पार करे ।
अथर्ववेद ७.५२.७, २०.८९.१० व २०.९४.१० में भी इसी मन्त्र की पुनरुक्ति की गई है ।
यह पुनरुक्ति संकेत करती है कि यह मन्त्र बहुत महत्त्वपूर्ण है ।
यह मन्त्र यव द्वारा क्षुधा की तृप्ति का निर्देश करता है, गौ द्वारा नहीं ।
गौ द्वारा अमति का नाश करके प्रमति को प्राप्त किया जाता है, उच्चतर चेतना के स्तर को प्राप्त किया जाता है, अतिमानसिक स्तर की प्राप्ति की जाती है ।
यव और व्रीहि उत्क्रान्त मेध के निकृष्टतम भाग हैं ।
एक मन्त्र में यव को वरुण्य, वरुण देवता का भाग कहा गया है ।
वरुण मर्त्य स्तर का देवता है । वह पापों को पाशों से बांधता है ।
हम सब अपनी क्षुधा की तृप्ति यव द्वारा , गोधूम द्वारा ही करते हैं ।
यव या गोधूम की उत्पत्ति भी सूर्य की किरणों से ही होती है ।
यहां यह अन्तर्निहित है कि या तो हम सूर्य की किरणों से गौ का निर्माण कर लें या यव का ।
यदि यव का निर्माण करते हैं तो वह गौ का वध कहलाएगा ।
ऋग्वेद १.२३.१५, ५.२.५ आदि में गो/किरणों द्वारा यवन का उल्लेख आता है ।
डा. फतहसिंह का मत है कि यव बीच में से जुडा होता है ।
इसी प्रकार यदि मनुष्य के ६ निचले कोश सातवें उच्चतम कोश से जुड जाएं तो वह यव बन जाता है ।
ऋग्वेद की कुछ ऋचाओं में गायों द्वारा यव के पीछे भागने के उल्लेख आते हैं ।
साधारण अर्थ में तो हम सभी जानते हैं कि गौ पशु को यव या गोधूम कितने प्रिय हैं ।
लेकिन ऋचाएं संकेत करती हैं कि इनमें गहरे निहितार्थ छिपे हैं ।
ऐसा लगता है कि यव की व्याख्या वैदिक साहित्य में आयु द्वारा की गई है ।
जैमिनीय ब्राह्मण २.४४२ का कथन है कि आयु द्वारा अयुवत, यही आयु का आयुत्व है ।
वैदिक साहित्य में सार्वत्रिक रूप से आयु को गौ का वत्स कहा गया है ।
वैसे वत्स या वत्सर का अर्थ है एक वर्ष की उम्र |
ज्योति व गौ के मिथुन से आयु वत्स का जन्म होता है ।
ऋग्वेद की ऋचाओं में कहा गया है कि गौ अपने वत्स के पीछे भागती है ।
यव के सम्बन्ध में एक संभावना यह हो सकती है कि यव की उत्पत्ति बाहर के सूर्य की किरणों से होती हो और गौ की अपने अन्दर के सूर्य की किरणों से ।
यह महत्त्वपूर्ण है कि वैदिक साहित्य अदिति रूपी गौ के किसी भी प्रकार से वध का निषेध करता है - मा गामनागां अदितिं वधिष्ट (तैत्तिरीय संहिता ४.२.१०.२ आदि ) ।
डा. फतहसिंह के शब्दों में अदिति एक इकाई है । वह देवों की माता है ।
दूसरी ओर दिति है जो खण्डित व्यक्तित्व है । वह असुरों की माता है ।
जैमिनीय ब्राह्मण २.३४ में यव का सम्बन्ध रैवत साम से और गौ का रथन्तर साम से जोडा गया है । इनके बीच में अन्य पशुओं के साम हैं ।
रैवत साम के संदर्भ में रेवती नक्षत्र के लिए कहा गया है कि गाव: परस्तात्, वत्सा अवस्तात् । अर्थात् गौ अपने वत्स का पालन करती है ।
वैसे वत्स या वत्सर का अर्थ है एक वर्ष की उम्र | लेकिन वैदिक साहित्य में वत्स का क्या अर्थ है, यह एक अलग विषय है। यज्ञ में दुग्ध पान करते हुए वत्स को हटा कर यज्ञ कार्य हेतु दुग्ध का ग्रहण किया जाता है । आभासी रूप में यह एक क्रूर कार्य कहा जाएगा । लेकिन वैदिक साहित्य में वत्स का प्रतीकार्थ क्या है, इसकी व्याख्या उपनिषद में की गई है ।
ज्यातिष्टोम में तम का त्याग या होम करना होता है, भूः स्वाहा
गोष्टोम में जडता का त्याग करना पडता है, भुवः स्वाहा
आयुष्टोम में भेदभाव का त्याग करना पडता है, स्वः स्वाहा
यह उल्लेखनीय है कि वैदिक यज्ञों की दो श्रेणियां हैं - हविर्यज्ञ और सोमयज्ञ । हविर्यज्ञ अग्निहोत्र से आरम्भ होते हैं और विवाह पर समाप्त होते हैं ।
इन्हें हविर्यज्ञ इसलिए कहा जाता है क्योंकि इनमें हवि की आहुति दी जाती है ? हवि में यव भी सम्मिलित है । लेकिन यह महत्त्वपूर्ण है कि अग्निहोत्र आदि यज्ञों में भी अग्निहोत्री/ गौ का बहुत महत्त्व है ।
ब्राह्मण ग्रन्थों में प्रश्नोत्तर उपलब्ध हैं कि कौन किस प्रकार की अग्निहोत्री की उपासना करता है ।
दूसरी ओर सोम संस्थागत यज्ञ हैं जिनमें हवि की आहुति नहीं दी जाती, अपितु घृत/ आज्य की आहुतियां दी जाती हैं । इस वर्ग में ज्योतिष्टोम/ अग्निष्टोम संज्ञक यज्ञ प्रथम है ।
सोमसंस्थागत यज्ञों में यजमान यव का भक्षण नहीं करता, वह गोपयः से ही तृप्ति प्राप्त करता है ।
और सोमसंस्थागत यज्ञों में गोवत्स द्वारा गो के पयःपान का निषेध कर दिया जाता है, केवल यज्ञ कार्य के लिए ही उसका उपयोग किया जाता है ।
गौ का कुण्डलिनी शक्ति से सम्बन्ध
वैदिक साहित्य में कुछ स्थानों पर उल्लेख आते हैं कि यज्ञ कार्य के लिए दुग्ध का दोहन करते समय यदि गौ बैठी हुई हो तो उसे दण्ड द्वारा उठाना चाहिए ( उदाहरण के लिए, जैमिनीय ब्राह्मण १.५९) ।
दण्ड द्वारा उत्थापन की बात हठयोग सम्बन्धी ग्रन्थों में कुण्डलिनी शक्ति के लिए भी की गई है ।
अतः यह संकेत करता है कि गौ कुण्डलिनी शक्ति की प्रतीक भी हो सकती है ।
ऋग्वेद का अन्तिम सूक्त आयं गौ: पृश्निरक्रमीदसन् मातरं पुर: । पितरं च प्रयन्त्स्व: इति सार्पराज्ञी सूक्त कहलाता है
और कुण्डलिनी को भी सार्पराज्ञी कहा जाता है ।
अतः जब ब्राह्मण ग्रन्थ गौ को वाक् कहते हैं तो उससे तात्पर्य कुण्डलिनी शक्ति से भी लिया जा सकता है ।
यह सर्वविदित है कि भोजन करने पर कुण्डलिनी शक्ति जाग्रत नहीं रह पाती । वह बैठ ही जाती है । यह एक प्रकार से गौ का हनन ही है ।
अतः जब वैदिक तथा पौराणिक साहित्य में गौ के वध की बात की जाती है तो इसे इस दृष्टिकोण से भी समझने की आवश्यकता है ।
अपेक्षा यह की जाती है कि कुण्डलिनी शक्ति सदैव आकाश में ऊंचे और ऊंचे विचरण करती रहे ।
लेकिन प्रायः सभी की कुण्डलिनी शक्ति सोई पडी रहती है ।
सिन्धु घाटी की सभ्यता में प्राप्त की  सार्पराज्ञी या पट्टमहिषी मुद्रा को गवामयन सत्र याग के आधार पर समझा जा सकता है।
गवामयन याग एक वर्ष का होता है जिसमें पहले छह महीने विश्वजित् और बाद के छह महीने सर्वजित् कहलाते हैं।
बीच का दिन दिवाकीर्त्यम् अह कहलाता है।
बीच के दिन दिवाकीर्त्यम् अह के विषय में कहा गया है कि यह विषुवत (वि - सुव, विशिष्ट प्रकार से प्रेरणा प्राप्त करना) अह है।
भौगौलिक आधार पर, विषुवत अह वह होता है जिस दिन सूर्य की किरणें पृथिवी पर अधिकतम सीधी आती हैं।
विषुवत रेखा भी पृथिवी का वह स्थान है जहां सूर्य की किरणें सीधी पडती हैं।
आध्यात्मिक रूप में यह कहा जा सकता है कि विषुवत अह वह स्थिति है जहां आत्मा और परमात्मा निकटतम होते हैं।
पहले छह महीने विश्वजित् कहलाते हैं।
इन दिनों में अपनी चेतना को एकत्र करना, समेटना होता है, अपनी अव्यवस्था को, एण्ट्रॉपी को न्यूनतम बनाना होता है, चेतना को अस्थियों तक सीमित करना पडता है, समाधि की स्थिति प्राप्त करनी होती है।
बाद के छह महीनों में अस्थियों में समाई इस चेतना का विस्तार पूरी देह में करना होता है।