Monday, January 7, 2019

भज गोविन्दम् or मोह मुद्गर

भज गोविन्दम् or मोह मुद्गर
Dwadasa-Manjarika-Stotra
“भज गोविन्दम्"

Moha Mudgara: Hammering on the Moha to break it
Mudgara in sanskrit means hammer.
So it is hammer that strikes at the illusion.so to conclude Bhaja Govindam will help us to eradicate ignorance.
The first twelve slokas are called dwadasa manjarika sthotram as the first 12 verses are told at a time.
Because the first 13 verses are meant only for the old man who even at the age of 80 yrs is keen to impart sanskrit grammer to students and not interested in devotion in god.
While Shankara was on a walk in the Benaras along with his shishyas, he saw a 80 yrs old man teaching his disciples Sanskrit grammar Paniniya sutra for the Cases i.e. Karaka: 'dungkrit Karane’ we have different Cases in Sanskrit: Karta, Karma, Karan etc
‘The first 13 are told by Adi Shankara to the old man. while Adi Sankara recited the first 13 verses disciples who are there with him inspired by their guru and wrote each verse by themselves.
So the next 14 verses are written by the 14 disciples who are there nearby.
So the next 14 are called Chaturdasa manjarika sthotram.
Disciples then shown the verses to Adi Sankara and he was impressed and he himself wrote another 4 verses blesssing them.

1. (भज गोविन्दं) “भज गोविन्दम्” श्लोके स्थिता: केचित् व्याकरणविषयाः
श्लोक:
भज गोविन्दं भज गोविन्दं गोविन्दं भज मूढमते |
संप्राप्ते सन्निहिते काले नहि नहि रक्षति डुकृञ्करणे ||१||
This is a refain which means a short part of a song or poem that is repeated, especially between the every verses ( to separate parts)
पदच्छेद:
भज, गोविन्दम्, भज, गोविन्दम्, गोविन्दम्, भज, मूढमते, संप्राप्ते, सन्निहिते, काले, न, हि, न, हि, रक्षति, डुकृञ्करणे
पदपरिचय:
भज – भज् (भज सेवायाम्) पर. (परस्मैपदी), लोट् (लोट् लकार:), मपु (मध्यमपुरुष:), एक. (एकवचनम्)
गोविन्दम् – अ. (अकारान्त:) पुं. (पुंलिङ्ग:) द्वि. (दवितीयाविभक्ति:) एक. (एकवचनम्)
मूढमते – इ. (इकारान्त:) पुं. (पुंलिङ्ग:) सम्बो. (सम्बोधनप्रथमाविभक्ति:) एक. (एकवचनम्)
संप्राप्ते – अ. (अकारान्त:) पुं. (पुंलिङ्ग:) स. (सप्तमीविभक्ति:) एक. (एकवचनम्)
सन्निहिते – अ. पुं. स. एक.
काले – अ. पुं. स. एक.
न – अव्ययम्
हि – अव्ययम्
रक्षति – रक्ष् (रक्ष पालने) पर. (परस्मैपदी), लट् (लट् लकार:), प्रपु. (प्रथमपुरुष:), एक. (एकवचनम्)
“डुकृञ्करणे” – एतद् पदम् अस्मिन् श्लोके संज्ञा रूपेण प्रथमा विभिक्त्यार्थे एक वचने उपयुङ्क्ते |
अन्वय:
मूढमते | (त्वं) गोविन्दं भज | (त्वं) गोविन्दं भज | (त्वं) गोविन्दं भज | काले सन्निहिते संप्राप्ते “डुकृञ्करणे” नहि नहि रक्षति |
सारम्
हे मन्दपुद्धे | त्वं गोविन्दं निरन्तरं भज | मरणकाले अत्यन्दं सन्निहिते सति व्याकरणादीतरशास्त्राध्ययनं संसारमुक्त्ये न कल्पते | अत: इदानीं तव गोविन्दभजनमेव कर्तव्यम् |
व्याकरणम्
संधि:
गोविन्दं भज = गोविन्दम् + भज – अनुस्वारसन्धि: |
समास:
मूढमते = मूढा मति: यस्य स: मूढमति:, तस्य – भहुव्रीहि: |
गोविन्दम् = गां विन्दति इति गोविन्द:, तं – उपपदसामास: |
गोविन्दम् = गोभि: विद्यते (उपनिशद्वाक्यै: ज्ञायते) इति गोविन्द:, तं – उपपदसामास:
कृदन्त:
संप्राप्ते – सम्+प्र+आप् (आप्लृ व्याप्तौ)+क्त प्रत्यय:संप्राप्त:, तस्मिन्
सन्निहिते – सम्+नि+हि (हि गतौ वृद्धौ च)+क्त प्रत्यय: सन्निहित:, तस्मिन
अन्य विषय:
संप्राप्ते सन्निहिते काले – सति सप्तमी – “यदा तत् भविष्यति तदा एतत् अपि भविष्यति” इति सूचयति |
“डुकृञ्करणे” इति पदम् अस्मिन् श्लोके संज्ञा रूपेण प्रथमा विभिक्त्यर्थे उपयुङ्क्ते | एतद् पणिने: धातुपाठे एकं सूत्रम् | कृ धातु: करणकार्ये भवति इति एतस्य सूत्रस्य अर्थ: |
डुकृञ्करणे is called the “औपदेशिक” form of the dhaatu कृ. In the औपदेशिक form, a dhaatu is usually written with meaning. For example, in डुकृञ् करणे, डुकृञ् is the dhaatu and करणे is the meaning. Similarly, it is possible that the औपदेशिक forms of avyayaas be slightly different than the actual form we see. For most avyayas like च अपि इति वा न etc etc, the औपदेशिक form is same as the form that we use. For some avyayas, it is different. For example माङ् becomes मा, निस् becomes नि (उपसर्ग), etc.
_____________________________

Bhaja gōvinda bhaja gōvinda
gōvinda bhaja mūḍhamatē |
samprāptē sannihitē kālē
nahi nahi rakati ukr̥ñkaraṇē ||1||
O thou ignorant! Repeat the name of Lord Govind as many times as possible. None of thy vast learning comes to thy rescue, to shield thee against the pangs of death.
________________________
2. (मूढ जहीहि) “भज गोविन्दम्” श्लोके स्थिता: केचित् व्याकरणविषयाः

श्लोक:
मूढ जहीहि धनागमतृष्णांकुरु सद्बुद्धिं मनसि वितृष्णाम् |
यल्लभसे निजकर्मोपात्तंवित्तं तेन विनोदय चित्तम् ||२||
पदच्छेद:
मूढ, जहीहि, धनागमतृष्णाम्, कुरु, सद्बुद्धिम्, मनसि, वितृष्णाम्, यत्, लभसे, निजकर्मोपात्तम्, वित्तम्, तेन, विनोदय, चित्तम्
पदपरिचय:
सम्बोधनपदम् = मूढ [ अ. पुं. संप्र. एक. ]
प्रथमवाक्यम्
क्रियापदम् = जहीहि [ हाक् “ओहाक् त्यागे” पर. लोट्. मपु. एक. ]
कर्मपदम् = धनागमतृष्णाम् [ आ. स्त्री. द्वि. एक. ]
कर्तृपदम् = (त्वम्)
द्वितीयवाक्यम्
क्रियापदम् = कुरु [ कृ “डुकृञ् करणे” उभ. (अत्र पर.) लोट्. मपु. एक. ]
कर्मपदम् = सद्बुद्धिम् [ आ. स्त्री. द्वि. एक. ]
कर्मविशेषणम् = वितृष्णाम् [ आ. स्त्री. द्वि. एक. ]
अधिकरणपदम् = मनसि [ स. नपुं. स. एक. ]
कर्तृपदम् = (त्वम्)
तृतीयवाक्यम्
“यत्” वाक्यांश:
क्रियापदम् = लभसे [ लभ् “डुलभष् प्राप्तौ” आत्म. लट्. मपु. एक. ]
कर्मपदम् = वित्तम् [ अ. नपुं. द्वि. एक. ]
कर्मविशेषणम् = निजकर्मोपात्तम् [ अ. नपुं. द्वि. एक. ]
कर्मविशेषणम् = यत् [ यद् द. नपुं. प्र. एक. ]
कर्तृपदम् = (त्वम्)
“तेन” वाक्यांश:
करणवाचकपदम् = तेन [ द. नपुं. तृ. एक. ]
क्रियापदम् = विनोदय [ वि + नुद् “णुद प्रेरणे” + णिच् प्रत्यय: | पर. लोट्. मपु. एक. | लट् – नुदति / नुदते, णिचि – नोदयति / नोदयते ]
णिजन्त-प्रयोज्यकर्ता-सूचक-कर्मपदम् = चित्तम् [ अ. नपुं. द्वि. एक. ]
णिजन्त-प्रयोजककर्ता-सूचक-कर्तृपदम् = (त्वम्)
अन्वय:
हे मूढ | (त्वं) धनागमतृष्णां जहीहि | (त्वं) वितृष्णां सद्बुद्धिं मनसि कुरु | निजकर्मोपात्तम् यत् वित्तम् (त्वं) लभसे, तेन (त्वं) चित्तं विनोदय |
सारम्
हे मूढ | त्वं धनागमतृष्णां परित्यज्य तृष्णारहितां (वैराग्यसंपन्नां) सद्बुद्धिं मनसि विधोहि | निजकर्मभिरार्जितेन पुण्यधनेन मनो विनोदय |
व्याकरणम्
संधि:
यल्लभसे = यत् + लभसे – परसवर्णसंधि:
समास:
धनागमतृष्णाम् = धनस्य आगमनम् धनागमनम् – षष्टितत्पुरुषसमास:, धनागमने तृष्णा धनागमतृष्णा, तां – सप्तमीतत्पुरुषसमास:
सद्बुद्धिम् = सती बुद्धि: सद्बुद्धि:, तां – विशेषणपूर्वपदकर्मधारय:
वितृष्णाम् = विगता तृष्णा वितृष्णा, तां – प्रादिसमास:
निजकर्मोपात्तम् = स्वस्य कर्म निजकर्म – अव्ययीभावसमास:, निजकर्मण: उपात्तम् निजकर्मोपात्तम् – षष्टितत्पुरुषसमास:
अन्यविषय:
विशेषण-विशेष्यम् – निजकर्मोपात्तम् वित्तम्
Some inputs from Sri. Neelesh
आगम: = आ+ गम् + अप् प्रत्यय: Note that अप् pratyay is an apavaad or exception for घञ्. Examples of घञ् are त्याग: (त्यज् ), पाय: (पा) and आप: (आप्). For some dhaatus, the घञ् is replaced by some other pratyayas, In this case it is अप्. ग्रहवृदृनिश्चिगमश्च is the sutra.
Some inputs from Sri. Anand
Note that जहीहि – हाक् in लोट्. मपु. एक. in this shloka is different from जहि (हन हिंसागत्यो: ) in लोट्. मपु. एक. that is present in Bhagavad Gita 3.43 “जहि शत्रुं महाबाहो” and 3.41 “पाप्मानं प्रजहि ह्येनम्”.
Mūḍha jahīhi dhanāgamatr̥ṣṇāṁ
kuru sadbud’dhi manasi vitr̥ṣṇām |
yallabhasē nijakarmōpātta
vitta tēna vinōdaya cittam ||2||
Thou ignorant! Get over thy desire for earning wealth. Cherish in Thee, the divine ideals, eliminating desire. Rejoice with what is obtained by honest means, being content always.
________________________
3. नारीस्तनभरनाभीदेशं – “भज गोविन्दम्” श्लोके स्थिता: केचित् व्याकरणविषयाः
श्लोक:
नारीस्तनभरनाभीदेशं दृष्ट्वा मा गा मोहावेशम् 
एतन्मांसवसादिविकारं मनसि विचिन्तय वारं वारम् || 3 ||
पदच्छेद:
नारीस्तनभरनाभीदेशम्, दृष्ट्वा, मा, गा:, मोहावेशम्, एतत्, मांसवसादिविकारम्, मनसि, विचिन्तय, वारम्, वारम् |
पदपरिचय:
नारीस्तनभरनाभीदेशम् – अ. नपुं. द्वि. एक.
दृष्ट्वा – दृश् + क्त्वा प्रत्यय: (दृशिर् प्रेक्षणे) अव्ययम्
मा – अव्ययम्
गा: – इ (इण् गतौ) पर. लुङ्. मपु. एक. (see detailed noted below)
मोहावेशम् – अ. नपुं. प्र. एक.
एतत् – द. नपुं. प्र. एक.
मांसवसादिविकारम् – अ. नपुं. प्र. एक.
मनसि – स. नपुं. स. एक.
विचिन्तय – वि + चिन्त् + णिच् प्रत्यय: ( चिति स्मृत्याम् ) पर. लोट्. मपु. एक.
वारम् – अव्ययम्
अन्वय:
नारीस्तनभरनाभीदेशं दृष्ट्वा, (त्वं) मोहावेशं मा गा: | एतत् मांसवसादिविकारं (इति) मनसि वारं वारं (त्वं) विचिन्तय |
सारम्
स्त्रीणां भोगस्थानानि दृष्ट्वा आसक्तिं मा गच्छ, यथार्थज्ञानवान् भव | एतत् मज्जा-मांस-रक्तादीनां परिणाम: एवेति अनवरतं मनसि भावय |
व्याकरणम्
संधि:
एतन्मांसवसादिविकारं = एतत् + मांसवसादिविकारं – अनुनासिकः |
गा मोहावेशम् = गा: मोहावेशम् – विसर्गस्य लोप: |
समास:
नारीस्तनभरनाभीदेशम् = स्तनयो: भर: स्तनभर:,
स्तनभरञ्च नाभी च स्तनभरनाभ्यौ,
स्तनभरनाभ्यो: तयो: देश: स्तनभरनाभीदेश:,
नार्या: स्तनभरनाभीदेश: नारीस्तनभरनाभीदेश:, तम् |
मोहावेशम् = मोहस्य आवेश:, तम् – षष्ठीतत्पुरुष: |
मांसवसादिविकारम् – मांसम् च वसा च आदि: येषां तानि माम्सव्सादीनि,
माम्सव्सादीनां तेषां विकार: मांसवसादिविकार:, तम् |
अन्य विषय:
गा: – “इ” धातु: लुङ्लकार: | “इणो गा लुङि” इति इणो गादेश: | लुङि अडागमनिषेद: |
More details from Sri Neelesh
The translation of मा गा: – “don’t be eluded”
Observe that the word “गा:” is actually used in the sense of लोट्लकार (or even विधिलिङ्लकार:) in this sentence. “मा गा:” means “”मा गच्छ”.
So the question is – Why didn’t he use the लोट्लकार? Why did he use the लुङ्लकार here? लुङ्लकार is actually used only for सामान्यभूत, (E.g. स: अपाठीत्) not for लोट् or विधिलिङ्.
The answer is that whenever one uses the avyayaa “माङ्”, there one must use the लुङ्लकार only. This is given by the panini sutra माङि लुङ् 3|3|175. Hence this shloka uses लुङ्लकार. (Note that “ङ्” is इत्संज्ञक here so it gets deleted leaving behind मा).
Now there is another question – The लुङ्लकार mandates that an “अ / आ” should come before the form. For example – पठ् becomes अपाठीत्. This is very similar to the normal लङ्लकार. So the form should ideally be अगा:. Why did he say “गा:” ?
The answer is that whenever we use the avyayaa “माङ्” the अडागम (i.e. अ/आ) does not come. This is given by the sutra “न माङ् योगे (6|4|74)”. Hence even if the correct form is अगा:, we should always say मा गा: , and not मा अगा:
Thus, this one shloka shows two really useful sutras in action! That is the grammatical beauty of this shloka.
Another example depicting this is the क्लैब्यं मा स्म गम: पार्थ (2.3 from geeta). Here also, because of word मा, we see the use of लुङ्लकार (गम् -> अगम:) but without the अडागम (hence, गम:).
There is an exception to this rule. Consider this shloka from Ramayana
मा निषादप्रतिष्ठां त्वमगमः शाश्वतीः समाः । यत्क्रौंचमिथुनादेकमवधी काममोहितम् । In Vedas (छन्दस्) the deletion of “अ” is optional in presence of माङ्. The sutra for that is बहुलं छन्दस्यमाङ्योगेऽपि । Note that the word छन्दस् does not refer to the Meter. It refers to the works of the Vedic Rishis like Vyasa and Valmiki.
Nārīstanabharanābhīdēśa
dr̥ṣṭvā māgāmōhāvēśam |
ētanmānsavasādi vikāra
manasi vicintaya vāra vāram || 3 ||
________________________

.नलिनीदलगतजलमतितरलं – “भज गोविन्दम्” श्लोके स्थिता: केचित् व्याकरणविषयाः
श्लोक:
नलिनीदलगतजलमतितरलं तद्वज्जीवितमतिशयचपलं
विद्धि व्याध्यभिमानग्रस्तं लोकं शोकहतं च समस्तम् || ४ ||
पदच्छेद:
नलिनीदलगतजलम्, अतितरलम्, तद्वत्, जीवितम्, अतिशयचपलम्, विद्धि, व्याध्यभिमानग्रस्तम्, लोकम्, शोकहतम्, च, समस्तम्
पदपरिचय:
नलिनीदलगतजलम् – अ. नपुं. प्र. एक.
अतितरलम् – अ. नपुं. प्र. एक.
तद्वत् – अव्ययम्
जीवितम् – अ. नपुं. प्र. एक.
अतिशयचपलम् – अ. नपुं. प्र. एक.
विद्धि – विद् (विद् ज्ञाने ) पर. लोट्. म. एक.
व्याध्यभिमानग्रस्तम् – अ. पुं. द्वि. एक.
लोकम् – अ. पुं. द्वि. एक.
शोकहतम् – अ. पुं. द्वि. एक.
च – अव्ययम्
समस्तम् – अ. पुं. द्वि. एक.
अन्वय:
नलिनीदलगतजलम् अतितरलं तद्वत् जीवितम् अतिशयचपलं भवति | समस्तं लोकं व्याध्यभिमानग्रस्तं शोकहतं च विद्धि |
सार:
कमलपत्रगतजलकण इव प्राणिनां जीवितं अत्यन्तचपलं भवति | अहं मम इत्यादि अभिमानरूप महाव्याधिना आक्रान्त: अयं प्रपञ्च: इति पस्तुतत्त्वं विजानीहि |
व्याकरणम्
सन्धि:
तद्वज्जीवितम्
तद्वत् = तत् + वत् – जश्त्वसन्धि: |
तद्वत् + जीवितम् = तद्वच् + जीवितम् , श्चुत्वसन्धि: |
तद्वच् + जीवितम् = तद्वज्जीवितम् , जश्त्वसन्धि: |
समास:
नलिनीदलगतजलम् – नलिनया: दलम् नलिनीदलम् – षष्टितत्पुरुष: |
नलिनीदलं गतम् नलिनीदलगतम् – द्वितीयातत्पुरुष: |
नलिनीदलगतम् जलम् नलिनीदलगतजलम् – विशेषणपूर्वपद कर्मधारय: |
व्याध्यभिमानग्रस्तम् – व्याधि: च अभिमानम् च व्याध्यभिमाने – इतरेतरद्वन्द्व: |व्याध्यभिमानाभ्यां ग्रस्त: व्याध्यभिमानग्रस्त:, तम् – तृतीयातत्पुरुष: |
शोकहतम् – शोकेन हतम्, तम् – तृतीयातत्पुरुष: |
अन्य विषय:
विशेषान-विशेष्यम् – समस्तं लोकम्
Nalinīdalagatajalamatitarala
tadvajjīvitamatiśayacapala
vid’dhi vyādhyabhimānagrasta
lōka śōkahata ca samastam || 4 ||
Earthly existence is as unsteady as a drop of water on lotus leaf. It is nothing but ego and a bundle of diseases. The world is hooded with dark grief and ends in destruction.
________________________
5. यावद्वित्तोपार्जनसक्त: – “भज गोविन्दम्” श्लोके स्थिता: केचित् व्याकरणविषयाः
श्लोक:
यावद्वित्तोपार्जनसक्त-स्तावन्निजपरिवारो रक्तः |
पश्चाज्जीवति जर्जरदेहे वार्तां कोऽपि न पृच्छति गेहे || ५ ||
पदच्छेद:
यावत् , वित्तोपार्जनसक्त: , तावत् , निजपरिवार: ,रक्तः , पश्चात् , जीवति , जर्जरदेहे  वार्ताम् , क: , अपि , न , पृच्छति , गेहे |
पदपरिचय:
यावत् = अव्ययम्
वित्तोपार्जनसक्त: = अ. पुं. प्र. एक.
तावत् = अव्ययम्
निजपरिवार: = अ. पुं. प्र. एक.
रक्तः = अ. पुं. प्र. एक.
पश्चात् = अव्ययम्
जीवति = जीव् (जीव प्राणधारणे) पर. लट्. प्र. एक.
जर्जरदेहे = अ. पुं. स. एक.
वार्ताम् = आ. स्त्री. द्वि. एक.
क: = म. पुं. प्र. एक.
अपि = अव्ययम्
न = अव्ययम्
पृच्छति = प्रच्छ् (प्रच्छ ज्ञीप्सायाम् – षष्ठी तुदादिगण: ) पर. लट्. प्र. एक.
गेहे = अ. पुं. स. एक.
अन्वय:
(कस्चित्प्रभु: ) यावत् वित्तोपार्जनसक्त: (भवति), तावत् निजपरिवार: (तस्मिन्) रक्तः (भवति) | पश्चात् (स: यदि) जर्जरदेहे जीवति, (तदा) गेहे क: अपि वार्तां न पृच्छति |
सार:
पूर्वोक्तार्थमेवानुवदति | गृहपति: यावत्कालपर्यन्तं धनसंपादने व्यापृत: शक्तो भवति तावत्कालपर्यन्तं पुत्र-भार्यादाय: बान्धवा: तस्मिन् अनुरक्ता: भवन्ति | यदा खलु पलित-गलित-शरीर: प्राणान् धरति, वित्तसमार्जनाशाक्तश्च भवति, तदा स्वगृहे न कोऽपि कुशलमपि पुच्छेत् |
व्याकरणम्
सन्धि:
यावद्वित्तोपार्जनसक्त: = यावत् वित्तोपार्जनसक्त: – जश्त्वसंधि:
वित्तोपार्जनसक्तस्तावत् = वित्तोपार्जनसक्त: + तावत् – विसर्गस्य सकारादेश:
तावन्निजपरिवार: = तावत् + निजपरिवार: – अनुनासिक:
निजपरिवारो रक्तः = निजपरिवार: + रक्तः – विसर्गसंधि: उकार:
पश्चाज्जीवति
पश्चात् + जीवति = पश्चाच् + जीवति – श्चुत्वसन्धि:
पश्चाच् + जीवति = पश्चाज्जीवति – जश्त्वसन्धि:
कोऽपि = क: + अपि – विसर्गसंधि: उकार:
समास:
वित्तोपार्जनसक्त: – वित्तस्य उपार्जनम् वित्तोपार्जनम् – षष्ठीतत्पुरुष:,
वित्तोपार्जने सक्त: वित्तोपार्जनसक्त: – सप्तमितत्पुरुष:
निजपरिवार: – निजस्य परिवार: – षष्ठीतत्पुरुष: |
र्जरदेहे – जर्जरश्चासौ देहश्च जर्जरदेह:, तस्मिन् – इतरेतरद्वन्द्व: |
कृदन्त:
सक्त: – सच् (षचँ समवाये) + क्त (कर्तरि)
Comments from Sri Neelesh: The root सच् indicates “To be involved deeply in”. In Bhagavad Geeta 2.44, we see the usage of this root in भोगैश्वर्यप्रसक्तानां तयापहृतचेतसाम्
Yāvadvittōpārjanasakta-stāvannijaparivārō rakta |
paścājjīvati jarjaradēhē 
vārtāṁ kō̕pi na pr̥cchati gēhē || 5 ||
So long as thou possess wealth, thou hast all kith and kin and all paraphernalia about you. But when thou attain old age and live a sinecure, none enquires about your health even in your own house. (sinecure: one who has revenue without employment).
________________________

6. यावत्पवनो निवसति देहे – “भज गोविन्दम्” श्लोके स्थिता: केचित् व्याकरणविषयाः
श्लोक:
यावत्पवनो निवसति देहे तावत्पृच्छति कुशलं गेहे |
गतवति वायौ देहापाये भार्या बिभ्यति तस्मिन्काये ||६||
पदच्छेद:
यावत् , पवन: , निवसति , देहे , तावत् , पृच्छति , कुशलम् , गेहे , गतवति , वायौ , देहापाये ,
भार्या: , बिभ्यति , तस्मिन् , काये |
पाठभेद:
यावज्जीवो निवसति देहे कुशलं तावत् पृच्छति गेहे |
गतवति वायौ देहापाये भार्या बिभ्यति तस्मिन्काये ||६||
पदपरिचय:
यावत् = अव्ययम्
पवन: = अ. पुं. प्र. एक.
निवसति = नि + वस् (वास निवासे) पर. लट्. प्रपु. एक
देहे = अ. पुं. स. एक.
तावत् = अव्ययम्
पृच्छति = (श्लोक: ५) प्रच्छ् (प्रच्छ ज्ञीप्सायाम् – षष्ठी तुदादिगण: ) पर. लट्. प्र. एक.
कुशलम् = अ. नपुं. द्वि. एक.
गेहे = अ. नपुं. स. एक.
गतवति = त. पुं. स. एक.
वायौ = उ. पुं. स. एक.
देहापाये = अ. पुं. स. एक.
भार्या: = आ. स्त्री. प्र. बहु.
बिभ्यति = भी (ञिभी भये – तृतीय जुहोत्यादिगण:) पर. लट्. प्र. बहु. (लट्. प्र. एक – बिभेति)
तस्मिन् = द. पुं. स. एक.
काये = अ. पुं. स. एक.
अन्वय:
पवन: यावत् देहे निवसति तावत् गेहे कुशलम् पृच्छति | देहापाये वायौ गतवति (सति)
भार्या: तस्मिन् काये बिभ्यति |
सार:
यावत् प्राणवायु: शरीरे शिष्यते तावत् गेहे पुत्र-भार्यादय: तस्मिन् अनुरक्ता: भवन्ति, तत्सेवायां तत्त्पराश्च भवन्ति | पश्चात् प्रानवियोगेन देहपाते सति (मृते सति) अत्यन्तमनुरक्ता स्वभार्याऽपि जडीभुतशरीरविषयकं भयमाकलयति |
व्याकरणम्
संधि:
पवनो निवसति = पवन: + निवसति – विसर्गसंधि: उकार:
कुशलं गेहे = कुशलम् + गेहे – अनुस्वारसन्धि:
समास:
देहापाये = देहस्य अपाय: देहापाय:, तस्मिन् – षष्ठीतत्पुरुष:
कृदन्त:
पवन:
पवनम् = पू (पूङ् पवने, भ्वादि, आत्मनेपदी) + ल्युट् प्रत्यय:
पवन: = पू + ल्युट् (कर्तरि) प्रत्यय:
अन्य विषय:
देहापाये वायौ गतवति (सति) – सतिसप्तमी
________________________
7. बालस्तावत्क्रीडासक्तः – “भज गोविन्दम्” श्लोके स्थिता: केचित् व्याकरणविषयाः
श्लोक:
बालस्तावत्क्रीडासक्तः तरुणस्तावत्तरुणीसक्तः ।
वृद्धस्तावच्चिन्तासक्तः परमे ब्रह्मणि कोऽपि न सक्तः ।।७।।
पदच्छेद:
बाल: , तावत् , क्रीडासक्तः , तरुण: , तावत् , तरुणीसक्तः , वृद्ध: , तावत् , चिन्तासक्तः , परमे , ब्रह्मणि , क: , अपि , न , सक्तः |
पदपरिचय:
बाल: – अ. पुं. प्र. एक.
तावत् – अव्ययम्
क्रीडासक्तः – अ. पुं. प्र. एक.
तरुण: – अ. पुं. प्र. एक.
तावत् – अव्ययम्
रुणीसक्तः – अ. पुं. प्र. एक.
वृद्ध: – अ. पुं. प्र. एक.
तावत् – अव्ययम्
चिन्तासक्तः – अ. पुं. प्र. एक.
परमे – म. नपुं. स. एक.
ब्रह्मणि – न. नपुं. स. एक.
क: – अ. पुं. प्र. एक.
अपि – अव्ययम्
न – अव्ययम्
सक्तः – अ. पुं. प्र. एक.
अन्वय:

(यावत्) बाल: (अस्ति) तावत् क्रीडासक्तः (भवति) | तरुण: तावत् तरुणीसक्तः (भवति) | वृद्ध: तावत् चिन्तासक्तः (भवति) | क: अपि परमे ब्रह्मणि न सक्तः (भवति) |
सार:
बाल्यावस्थायां सर्वोऽपि केल्यां आसक्तो भवति | यौवने तु स्त्रियां, वार्धक्ये विन्तायां च आसक्तो भवति | सच्चिदानन्दे ब्रह्मणि तु कोऽपि न सक्तो भवति |
व्याकरणम्
संधि:
बालस्तावत् = बाल: + तावत् – विसर्गसंधि:, सकार:
तरुणस्तावत् = तरुण: + तावत् – विसर्गसंधि:, सकार:
वृद्धस्तावत् = वृद्ध: + तावत् – विसर्गसंधि:, सकार:
तावच्चिन्तासक्तः = तावत् + चिन्तासक्तः – श्चुत्वसंधि:
कोऽपि = को+अपि – पूर्वरुपसंधि:, क: + अपि – विसर्गसंधि:, उकार:
समास:
क्रीडासक्तः – क्रीडायां सक्त: , सप्तमितत्पुरुशसमास: |
तरुणीसक्तः – तरुण्यां सक्त: , सप्तमितत्पुरुशसमास: |
चिन्तासक्तः – चिन्तायां सक्त: , सप्तमितत्पुरुशसमास: |
कृदन्त:
सक्तः – सच् (षचँ समवाये) + क्त (कर्तरि) (श्लोक: 5)
Note: In the book, the root is mentioned as सञ्ज (सञ्ज सङ्गे)
Bālastāvatkrīḍāsaktaḥ taruastāvattaruṇīsakta.
Vr̥d’dhastāvaccintāsaktaḥ paramē brahmai kō̕pi na sakta 7
Thy mind is engaged in games when thou art a boy, and in youth in courting thy lady love. When thou art old, it is crowded with thoughts and worries. In short thou hast no time to devote unto God or divine ideals.
________________________
8. का ते कान्ता – “भज गोविन्दम्” श्लोके स्थिता: केचित् व्याकरणविषयाः
श्लोक:
का ते कान्ता कस्ते पुत्रः संसारोऽयमतीव विचित्रः |
कस्य त्वं कः कुत आयात-स्तत्त्वं चिन्तय तदिह भ्रातः ||८||
पदच्छेद:
का ते कान्ता क: ते पुत्रः संसार: अयम् अतीव विचित्रः कस्य त्वं कः कुत: आयातः तत्त्वं चिन्तय तत् इह भ्रातः
पदपरिचय:
का – आ. स्त्री. प्र. एक.
ते – द. त्रि. ष. एक. (युष्मद् शब्द:) (पर्यायपदं – तव)
कान्ता – आ. स्त्री. प्र. एक.
क: – अ. पुं. प्र. एक.
पुत्रः – अ. पुं. प्र. एक.
संसार: – अ. पुं. प्र. एक.
अयम् – म. पुं. प्र. एक. (इदं शब्द:)                                                                                                                 अतीव – अव्ययम्
विचित्रः – अ. पुं. प्र. एक.
कस्य – म. पुं. ष. एक. (किं शब्दः)
तत्त्वम् – द. त्रि. प्र. एक. (युष्मद् शब्द:)
कुत: – अव्ययम् (पर्यायपदं – कस्मात्)
आयातः – अ. पुं. प्र. एक.
तत्त्वम् – म. नपुं. द्वि. एक.
चिन्तय – चिन्त् + णिच् प्रत्यय: ( चिति स्मृत्याम् ) पर. लोट्. मपु. एक.
तत् – द. नपुं. द्वि. एक. (तद् शब्द:)
इह – अव्ययम् (पर्यायपदं – अत्र)
भ्रातः – ऋ. पु. सं. एक. (प्रथमा = भ्राता, भ्रातरौ, भ्रातर:, द्वितीया = भ्रातरम्, भ्रातरौ, भ्रातॄन्)
अन्वय:
हे भ्रात: | ते कान्ता का ? ते पुत्रः क:? अयम् संसार: अतीव विचित्रः | त्वं कस्य ? | त्वं कः ? त्वं कुत: आयातः ? तत् तत्त्वं इह (त्वं) चिन्तय |
सार:
हे भ्रात: | तव व्यवहारार्था भार्या का ? तव पुत्र: क: ? कस्या: भर्ता त्वम्? कस्य पिता? तव उत्पत्तिस्थानं किम्? एतेषां तत्त्वं चिन्तय |
व्याकरणम्
संधि:
कस्ते = क: ते – विसर्गसन्धि:, सकार:
संसारोऽयमतीव = संसार: अयम्+अतीव – पूर्वरुपसंधि:
कुत आयातः = कुत: आयातः – विसर्गसन्धि:, लोप:
आयातस्तत्त्वं = आयातः तत्त्वं – विसर्गसन्धि:, सकार:
तदिह = तत् इह – जश्त्वसंधि:
Kā tē kāntā kastē putraḥ sansārō̕yamatīva vicitra |
kasya tva ka kuta āyāta-stattva cintaya tadiha bhrāta ||8||

Who is thy wife and who is thy son? O brother! The so called family of yours is mysterious. Wherefrom art thou? Where do thou go? Trace thy existence in this world and understand the truth.
_______________________

9. सत्सङ्गत्वे निस्सङ्गत्वम्
– “भज गोविन्दम्” श्लोके स्थिता: केचित् व्याकरणविषयाः
श्लोक:
सत्सङ्गत्वे निस्सङ्गत्वं निस्सङ्गत्वे निर्मोहत्वम् ।
निर्मोहत्वे निश्चलतत्त्वं निश्चलतत्त्वे जीवन्मुक्तिः ।।९।।
पदच्छेद:
सत्सङ्गत्वे निस्सङ्गत्वम् निस्सङ्गत्वे निर्मोहत्वम् निर्मोहत्वे निश्चलतत्त्वं निश्चलतत्त्वे जीवन्मुक्तिः ।
पदपरिचय:
प्रथमवाक्यम्
क्रियापदम् = (भवति)
कर्तुपदम् = नि:+सङ्गत्वम् [ म. नपुं. प्र. एक. ]
अधिकरणपदम् = सत्+सङ्गत्वे [ म. नपुं. स. एक. ]
द्वितीयवाक्यम्
क्रियापदम् = (भवति)
कर्तुपदम् = नि:+मोहत्वम् [ म. नपुं. प्र. एक. ]
अधिकरणपदम् = निस्सङ्गत्वे [ म. नपुं. स. एक. ]
तृतीयवाक्यम्
क्रियापदम् = (भवति)
कर्तुपदम् = नि:+चल+तत्त्वम् [ म. नपुं. प्र. एक. ]
अधिकरणपदम् = निर्मोहत्वे [ म. नपुं. स. एक. ]
चतुर्थवाक्यम्
क्रियापदम् = (भवति)
कर्तुपदम् = जीवन्+मुक्तिः [ इ. पुं. प्र. एक. ]
अधिकरणपदम् = निश्चलतत्त्वे [ म. नपुं. स. एक. ]
अन्वय:
सत्सङ्गत्वे निस्सङ्गत्वम् | निस्सङ्गत्वे निर्मोहत्वम् | निर्मोहत्वे निश्चलतत्त्वम् | निश्चलतत्त्वे जीवन्मुक्तिः (भवति) ।
सार:
ब्रह्मज्ञानिनां संसर्गेण भोगेषु संगराहित्यं भवति | संगाभावसिद्धौ मोहापगम: भवति | मोहापगमे च स्थिरता सिद्ध्यति | स्थैर्यसिद्धौ च जीवन् एव अविद्याबन्धात् मुक्त: भवति |
व्याकरणम्
संधि:
निस्सङ्गत्वम् निस्सङ्गत्वे = निस्सङ्गत्वं निस्सङ्गत्वे – अनुस्वारसन्धि:
निश्चलतत्त्वम् निश्चलतत्त्वे = निश्चलतत्त्वं निश्चलतत्त्वे – अनुस्वारसन्धि:
समास:
सत्सङ्गत्वे – सतां सङ्ग: सत्सङ्गः – षष्ठितत्पुरुष: (to be verified) | तस्य भाव: सत्सङ्गत्वम् | तस्मिन् | [ सद्भि: सङ्ग: अस्य अस्ति इति सत्सङ्गः ]
निस्सङ्गत्वे – निर्गत: सङ्ग: यस्मात् स: निस्संग: – समानाधिकरण बहुव्रीहि: | तस्य भाव: निस्सङ्गत्वम् | तस्मिन् |
निर्मोहत्वे – निर्गत: मोह: यस्मात् स: निरमोह: – समानाधिकरण बहुव्रीहि: | तस्य भाव: निर्मोहत्वम् | तस्मिन् |
निश्चलतत्त्वे – निर्गत: चल: (चलनं) यस्मात् तत् निश्चलम् – समानाधिकरण बहुव्रीहि: | तस्य भाव: तत्त्वम् | निश्च्लश्च तत् तत्वञ्च निश्चलतत्त्वम् – कर्मधारय: |
जीवन्मुक्ति: – जीवत: एव मुक्ति: जीवन्मुक्ति: – कर्मधारय (to be verified)|
Satsagatvē nis’sagatvaṁ nisagatvē nirmōhatvam.
Nirmōhatvē niścalatattvaṁ 
niścalatattvē jīvanmukti ||9||
Obtain the company of the good. Thou art rid of fear. In the absence of fear, ignorance is lost. In the loss of ignorance, thy mind is steady. In the steadiness of thy mind is centered salvation.
________________________

10. वयसि गते कः – “भज गोविन्दम्” श्लोके स्थिता: केचित् व्याकरणविषयाः
श्लोक:
वयसि गते कः कामविकारः शुष्के नीरे कः कासारः ।
क्षीणे वित्ते कः परिवारो ज्ञाते तत्त्वे कः संसारः ।।१०।।
पाठभेद:
वयसि गते कः कामविकारः शुष्के नीरे कः कासारः ।
नष्टे द्रव्ये क: परिवारो ज्ञाते तत्त्वे कः संसारः ।।१०।।
पदच्छेद:
वयसि गते कः कामविकारः शुष्के नीरे कः कासारः क्षीणे वित्ते कः परिवार: ज्ञाते तत्त्वे कः संसारः ।
पदपरिचय:
प्रथमवाक्यम्
क्रियापदम् = (अस्ति)
प्रश्नवाचक-कर्तृपदम् = कः [ किम् म. पुं. प्र. एक. ]
कर्तृपदम् = काम+विकारः [ अ. पुं. प्र. एक. ]
कालवाचकम् = वयसि [ स. नपुं. स. एक. | प्रथमाविभक्तौ – वयः, वयसी, वयांसि ] गते [ अ. पुं. स. एक. | गम् “गम्लृ गतौ” + क्त प्रत्यय: ]
द्वितीयवाक्यम्
क्रियापदम् = (अस्ति)
प्रश्नवाचक-कर्तृपदम् = कः [ किम् म. पुं. प्र. एक. ]
कर्तृपदम् = कासारः [ अ. पुं. प्र. एक. ]
कालवाचकम् = नीरे [ अ. नपुं. स. एक. ] शुष्के [ अ. नपुं. स. एक. | शुष् “शुष शोषणे” + क्त प्रत्यय: ]
तृतीयवाक्यम्
क्रियापदम् = (अस्ति)
प्रश्नवाचक-कर्तृपदम् = कः [ किम् म. पुं. प्र. एक. ]
कर्तृपदम् = परिवार: [ अ. पुं. प्र. एक. ]
कालवाचकम् = वित्ते [ अ. पुं. स. एक. ] क्षीणे [ अ. पुं. स. एक. | क्षि “क्षि क्षये” + क्तप्रत्यय: | प्रथमाविभक्ति: – क्षीण: अपि च क्षित: ]
चतुर्थवाक्यम्
क्रियापदम् = (अस्ति)
प्रश्नवाचक-कर्तृपदम् = कः [ किम् म. पुं. प्र. एक. ]
कर्तृपदम् = संसारः [ अ. पुं. प्र. एक. ]
कालवाचकम् = तत्त्वे [ अ. नपुं. स. एक. ] ज्ञाते [ अ. पुं. स. एक. | ज्ञा “ज्ञा अवबोधने” + क्त प्रत्यय: ]
अन्वय:
वयसि गते (सति) कः कामविकारः ? शुष्के नीरे (सति) कः कासारः ? क्षीणे वित्ते (सति) कः परिवार: ? ज्ञाते तत्त्वे (सति) कः संसारः ?
सार:
वृद्धावस्थायां कामविकार: नास्ति | निर्गते जले तडाक: कथं स्यात् ? तडाक: न स्यात् इति भाव: | शरीरस्य वित्तस्य च क्षये बान्धवा: कुत: ? न भविष्यति | परमार्थतत्वे ज्ञाते साक्षात्कृते संसारोऽपि नास्ति इत्यर्थ: |
व्याकरणम्
संधि:
परिवारो ज्ञाते = परिवार: ज्ञाते, विसर्गसन्धि:, उकार: |
समास:
कामविकार: – कामस्य विकार: , षष्ठीतत्पुरुष: |
अन्य विषय:
सति सप्तमी – वयसि गते (सति), नीरे शुष्के (सति), वित्ते क्षीणे (सति), तत्त्वे ज्ञाते (सति) – “यदा किञ्चन कार्यं भवति तदा” इति सूचयति |
Vayasi gatē ka kāmavikāraḥ śukē nīrē ka kāsāra.
Kṣīṇē vittē ka parivārō ātē tattvē ka sansāra ||10||
Just as the tremor of lust in youth automatically disappears in old age; just as a lake is only a stretch of land when water is dry; just as a wealthy man, when reduced to poverty is devoid of servants; so one who attains self-knowledge is rid of ephemeral pleasures.
_______________________

11. मा कुरु धनजनयौवनगर्वम् – “भज गोविन्दम्” श्लोके स्थिता: केचित् व्याकरणविषयाः
श्लोक:
मा कुरु धनजनयौवनगर्वं हरति निमेषात्कालः सर्वम् । 
मायामयमिदमखिलं बुद्ध्वा ब्रह्मपदं त्वं प्रविश विदित्वा ।।११।।
पाठभेद:
मा कुरु धनजनयौवनगर्वं हरति निमेषात्कालः सर्वम् ।
मायामयमिदमखिलं हित्वा ब्रह्मपदं त्वं प्रविश विदित्वा ।।११।।
पदच्छेद:
मा कुरु धन+जन+यौवन+गर्वम् हरति निमेषात् कालः सर्वम् मायामयम् इदम् अखिलम् बुद्ध्वा ब्रह्मपदम् त्वम् प्रविश विदित्वा ।
पदपरिचय:
प्रथमवाक्यम्
क्रियापदम् = मा [ अव्ययम् ] कुरु [ कृ (डुकृञ् करणे) { तनादि गण:, उभयपदी} पर. लोट्. मपु. एक. ]
कर्तृपदम् = (त्वम्)
कर्मपदम् = धन+जन+यौवन+गर्वम् [ म. नपुं. द्वि. एक. ]
द्वितीयवाक्यम्
क्रियापदम् = हरति [ हृ “हृ हरणे” पर. लट्. प्र. एक. ]
कर्तृपदम् = कालः [ अ. पुं. प्र. एक. ]
कर्मपदम् = सर्वम् [ म. नपुं. द्वि. एक. ]
कालवाचकपदम् = निमेषात् [ निमिष-अवधौ अथवा निमिषात् आरब्य सर्वकाल+अवधय: इति अर्थ: | अ. पुं. प. एक. अथवा अव्ययम् वा (to be verified) ]
तृतीयवाक्यम्
क्रियापदम् = प्रविश [ प्र + विश् “विश प्रवेशने” पर. लोट्. मपु. एक.]
कर्तृपदम् = त्वम् [ युष्मद् द. त्रि. ष. एक.]
कर्मपदम् = (ब्रह्मपदम्)
“बुद्ध्वा” वाक्यांश:
किं कृत्वा ? बुद्ध्वा [ बुध “बुध अवगमने” + क्त्वा प्रत्यय:, अव्ययम् ]
कर्मपदम् = अखिलम् [ म. नपुं. प्र. एक. ]
कर्मपदविषेषणम् = मायामयम् [ म. नपुं. प्र. एक. ], इदम् [ म. नपुं. प्र. एक. ]
“विदित्वा” वाक्यांश:
किं कृत्वा ? विदित्वा [ विद् “विद ज्ञाने” + क्त्वा प्रत्यय:, अव्ययम् ]
कर्मपदम् = ब्रह्मपदम् [ म. नपुं. द्वि. एक. ]
अन्वय:
धनजनयौवनगर्वं मा कुरु | निमेषात् कालः सर्वम् हरति | इदम् अखिलम् मायामयम् इति बुद्धवा त्वम् ब्रह्मपदम् विदित्वा प्रविश ।
सार:
त्वं धन-बन्धुबलेन-युवत्वेन च गर्वं मा कार्षी:, धनादिषु अहङ्कार: त्याज्य इत्यर्थ: | यत: काल: धनजनादिकमेतत्वसर्वं क्षणमात्रादेव हरति | इदं सर्वं मायाप्रयुक्तमिति ज्ञात्वा, सर्वं परित्यज्य ब्रह्मपदं विज्ञाय प्रविश | ब्रह्मसाक्षात्कारेण ब्रह्मैव भवेत्यर्थ: |
व्याकरणम्
विग्रह:
धनजनयौवनगर्वम् = धने जनयौवने च गर्व: धनजनयौवनगर्व: | तम् |
मायामयम् = मायाया: विकार:
Mā kuru dhanajanayauvanagarva harati nimēṣātkāla sarvam.
Māyāmayamidamakhila bud’dhvā brahmapada tva praviśa viditvā ||11||
The silent mill of Time is grinding thee every moment. So be not proud of thy wealth, kith and kin or thy youth. Cut asunder the cords that bind thee to this unreal world and enter the blissful world of reality through proper course, understanding thy self.
________________________

12. दिनयामिन्यौ सायं प्रातः – “भज गोविन्दम्” श्लोके स्थिता: केचित् व्याकरणविषयाः
श्लोक:
दिनयामिन्यौ सायं प्रातः शिशिरवसन्तौ पुनरायातः ।
कालः क्रीडति गच्छत्यायुः तदपि न मुञ्चत्याशावायुः ।।१२।।
पदच्छेद:
दिनयामिन्यौ सायं प्रातः शिशिरवसन्तौ पुन: आयातः कालः क्रीडति गच्छति आयुः तत् अपि न मुञ्चति आशावायुः |
पदपरिचय:
प्रथमवाक्यम्
क्रियापदम् = (आयात:)
कर्तृपदम् = दिनयामिन्यौ [अ. पुं. प्र. द्वि.]
द्वितीयवाक्यम्
क्रियापदम् = (आयात:)
कर्तृपदम् = सायम् [म. नपुं. प्र. एक.] प्रातः [अ. पुं. प्र. एक.]
तृतीयवाक्यम्
क्रियापदम् = आयात: [ आ (आङ्) + या “या प्रापणे” पर. लट्. प्रपु. द्वि.]
कर्तृपदम् = शिशिर+वसन्तौ [अ. पुं. प्र. द्वि.]
चतुर्थवाक्यम्
क्रियापदम् = क्रीडति[ क्रीड “क्रीडृ विहारे” पर. लट्. प्रपु. एक.]
कर्तृपदम् = कालः [उ. पुं. प्र. एक.]
पञ्चमवाक्यम्
क्रियापदम् = गच्छति [ गम् “गम्ऌ गतौ” पर. लट्. प्रपु. एक.]
कर्तृपदम् = आयुः [उ. पुं. प्र. एक.]
षष्ठवाक्यम्
क्रियापदम् = न [अव्ययम्] मुञ्चति [मुच् “मुच्ऌ मोक्षणे” पर. लट्. प्रपु. एक.]
कर्तृपदम् = आशा+वायुः [उ. पुं. प्र. एक.]
कालवाचकम् (to be verified) = तत् [ द. नपुं. प्र. एक. ] अपि [अव्ययम्]
अन्वय:
दिनयामिन्यौ (आयातः) | सायं प्रातः (आयातः) | शिशिरवसन्तौ पुन: आयातः | कालः क्रीडति | आयुः गच्छति | तत् अपि आशावायुः न मुञ्चति |
सार:
अह: निशा च पुन: पुन: चक्रनेमिवत् आगच्छत: गच्छत: च | एवं सायं प्रात: शिशिरवसन्तौ च यातायाते कुरुत: | काल: लीलां करोति, तेन सह आयु: अपि गच्छति | यद्यपि तृष्णावायु: नरं न त्यजति |
व्याकरणम्
संधि:
पुनरायातः = पुन: आयातः – विसर्गसन्धि: रेफादेश: |
गच्छत्यायुः = गच्छति आयुः – यण् सन्धि: |
तदपि = तत् अपि – जश्त्वसन्धि: |
मुञ्चत्याशावायुः = मुञ्चति आशावायुः – यण् सन्धि: |
विग्रह:
शिशिरवसन्तौ = शिशिर: च वसन्त: च शिशिरवसन्तौ – द्वन्द्वसमास |
आशावायु: = आशा एव वायु: – अवधारणा-पूर्वपद-कर्मधारय: |
Dinayāmin’yau sāya prātaḥ śiśiravasantau punarāyāta
Kāla krīḍati gacchatyāyuḥ tadapi na muñcatyāśāvāyu ||12||
Night follows the day, the day closes in the evening and dawns afresh on the next morning. The cheerless winter is succeeded by the pleasant spring. Thus Time, the wizard, is playing his Death dance and conjures thee. Yet thou do not want to part with life that is transitory.
________________________
This is the twelfth stanza, with which the bouquet of 12-verse-flowers (Dwadasa-Manjarika-Stotra) concludes. These are the twelve-stanzas directly given by Acharya Sankara, although, in truth, we cannot say it with any amount of finality, since we find in various publications, the stanzas are interchanged. In some publications, we find the bunch of these dozen-stanzas are concluded with a stanza describing the author and the circumstances under which the poem came to be composed.”
द्वादश मंजरिकाभिः असी कथितो वैय्याकरणैष
उपदेशो अभूदवियानिपुनैः श्रीमदशंकरै भगवत्  चरणैः
Dwadasa-manjarikabhir-asea Kathito vaiyakaranayaisha
Upadeso-abhud-viyanipunaih srimad-sankare-bhagawad-charanaih
_____________
13. का ते कान्ता धनगतचिन्ता – “भज गोविन्दम्” श्लोके स्थिता: केचित् व्याकरणविषयाः
श्लोक:
का ते कान्ता धनगतचिन्ता वातुल किं तव नास्ति नियन्ता ।
त्रिजगति सज्जनसंगतिरेका भवति भवार्णवतरणे नौका ।।१३।।
पाठभेद:
का ते कान्ताधरगतचिन्ता (कान्ता+अधर+गत+चिन्ता)
पदच्छेद:
का ते कान्ता धनगतचिन्ता वातुल किं तव न अस्ति नियन्ता त्रिजगति सज्जनसंगति: एका भवति भवार्णवतरणे नौका ।
पदपरिचय:
प्रथमवाक्यम्
क्रियापदम् = (अस्ति)
कर्तुपदम् = ते [युष्मद् द. त्रि. ष. एक.] कान्ता [आ. स्त्री. प्र. एक.]
प्रश्नवाचक कर्तुपदम् = का [आ. स्त्री. प्र. एक.]
द्वितीयवाक्यम्
प्रश्नवाचक क्रियापदम् = (किमर्थम् अस्ति?)
कर्तुपदम् = धन+गत+चिन्ता [आ. स्त्री. प्र. एक.]
तृतीयवाक्यम्
प्रश्नवाचक क्रियापदम् = न [अव्ययम्] अस्ति [अस् “अस भुवि” पर. लट्. प्र. एक.] किम् [अव्ययम्]
कर्तृपदम् = तव [अव्ययम्] नियन्ता [ऋ. पुं. प्र. एक.]
चतुर्थवाक्यम्
क्रियापदम् = भवति
कर्तृपदम् = सज्जनसंगति:
प्रथमकर्तृविशेषणम् = भव+आर्णव+तरणे (विषयिक-सप्तमी | तस्मिन् विषये इत्यर्थ:) [म्. नपुं. स. एक.] नौका [आ. स्त्री. प्र. एक.]
द्वितीयकर्तृविशेषणम् = एका [आ. स्त्री. प्र. एक.]
स्थानवाचकम् = त्रि+जगति [इ. स्त्री. स. एक.]
अन्वय:
वातुल | का ते कान्ता ? धनगतचिन्ता (किमर्थम्) ? तव नियन्ता नास्ति किम् ? त्रिजगति सज्जनसंगति: एका भवार्णवतरणे नौका भवति ।
सार:
भुवनत्रये सज्जनसंगति: (सज्जनसंसर्ग: / आचार्यसमागम:) संसारसागरतरणे एका नौका भवति | अत: दार धानादिचिन्तां परित्यज्य स्वहितोपदेष्टारं नियामकमाचार्य: शरण व्रज |
व्याकरणम्
संधि:
सज्जनसंगतिरेका = सज्जनसंगति: एका – विसर्गसन्धि: रेफादेश: |
समास:
त्रिजगति = त्रयाणां जगतां समाहार: – द्विगु: | तस्मिन् / तेषु (to be verified) | त्रिषु जगति |
सज्जनसंगति: = सत् जना: = सज्जना: | सज्जनानां संगति: |
भवार्णवतरणे – भव एव आर्णव: = भवार्णव: | तस्मिन् तरणे |
Kā tē kāntā dhanagatacintā vātula ki tava nāsti niyantā.
Trijagati sajjanasagatirēkā bhavati bhavāravataraṇē naukā ||13||
O mad man! Why do thou go after thy wife or wealth? Is there none to control and lead thee? Get into the association of the (Sants) Good for a moment, but for which there is no boat that can take thee across the turbulent ocean of (samsara) worldly existence.
_________________________________
Part-2
भज गोविन्दम् or मोह मुद्गर
chaturdasasa-manjarika-stotra
The following fourteen-verses together form the companion bouquet of “14-verses flowers” called chaturdasasa-manjarika-stotra. Each one of them is traditionally found to have been attributed to the fourteen followers of Sankara who had accompanied him on that day in Benaras.
14. जटिलो मुण्डी लुञ्चितकेशः – “भज गोविन्दम्” श्लोके स्थिता: केचित् व्याकरणविषयाः
श्लोक:
जटिलो मुण्डी लुञ्चितकेशः
काषायाम्बरबहुकृतवेषः |
पश्यन्नपि च न पश्यति मूढो
ह्युदरनिमित्तं बहुकृतवेषः||१४||
पदच्छेद:
जटिल: मुण्डी लुञ्चितकेशः काषाय+अम्बर+बहु+कृत+वेषः पश्यन् अपि च न पश्यति मूढ: हि उदर+निमित्तं बहु+कृत+वेषः |
पदपरिचय:
प्रथमवाक्यम्
क्रियापदम् = पश्यति [ दृश् “दृशिर् प्रेक्षणे” पर. लट्. प्रपु. एक. ]
क्रियाविशेषणम् = न [ अव्ययम् ]
कर्तृपदम् = मूढ: [ अ. पुं. प्र. एक. ]
कर्तृविशेषणम् = जटिल: [ अ. पुं. प्र. एक. ]
कर्तृविशेषणम् = मुण्डी [ न. पुं. प्र. एक. ]
कर्तृविशेषणम् = लुञ्चितकेशः [ अ. पुं. प्र. एक. ]
कर्तृविशेषणम् = काषाय+अम्बर+बहु+कृत+वेषः [ अ. पुं. प्र. एक. ]
कर्तृविशेषणम् = पश्यन् [ दृश् “दृशिर् प्रेक्षणे” + शतृ प्रत्यय:, त. पुं. प्र. एक. ]
द्वितीयवाक्यम्
क्रियापदम् = (अस्ति)
क्रियासूचक-कर्तृपदम् = बहु+कृत+वेषः [ अ. पुं. प्र. एक. ]
कर्तृपदम् = (एष:)
कारणवाचकपदम् = उदर+निमित्तम् [ अ. नपुं. द्वि. एक. ]
अन्वय:
जटिल: मुण्डी लुञ्चितकेशः काषाय+अम्बर+बहु+कृत+वेषः मूढ: पश्यन् अपि च न पश्यति | उदर+निमित्तं हि (एष:) बहु+कृत+वेषः |
सार:
जटाधारी, मुण्डितशिरस्क:, लुञ्चितकेश: काषायाम्बरादि नानावेषयुक्त: संन्यासवेषधारी मूढ:, यथार्थं न पश्यन्ति किन्तु उदरपूरणार्थमेव बहुधा वेषं घटति |
व्याकरणम्
संधि:
जटिलो मुण्डी = जटिल: मुण्डी – विसर्गसन्धि:, उकारादेश: |
पश्यन्नपि = पश्यन् अपि – ङमुडागमसन्धि: |
मूढो ह्युदरनिमित्तं = मूढ: ह्युदरनिमित्तं – विसर्गसन्धि:, उकारादेश: |
ह्युदरनिमित्तं = हि उदरनिमित्तं – यण् सन्धि: |
विग्रह:
जटिल: = जटा अस्यास्तीति |
मुण्डी = मुण्डम् अस्यास्तीति |
लुञ्चितकेश: = लुञ्चित: केशा: येन स: – बहुव्रीहिसमास: |
काषायाम्बरबहुकृतवेषः= कषायेण रक्तं काषायाम् |
काषायेण अम्बरेण बहुकृत: वेष: येन स: काषायाम्बर-बहुकृतवेष: – बहुव्रीहिसमास: |
बहुकृतवेष: = बहुभि: (उपायै: ) कृत: वेष: येन स: – बहुव्रीहिसमास: |
Jailō muṇḍī luñcitakēśa
kāṣāyāmbarabahukr̥tavēṣa |
paśyannapi ca na paśyati mūḍhō
hyudara nimitta bahukr̥tavēṣa||14||
Godliness does not mean self-mortification. Some shave their head bald, some cluster the hair, some pluck the hair one by one and some clothe themselves in saffron robes. They put on the air of saintliness all for the sake of their belly. They think that they are nearer to God, but are farther from Heavens.
________________________
15. अङ्गं गलितं पलितं मुण्डम् – “भज गोविन्दम्” श्लोके स्थिता: केचित् व्याकरणविषयाः
श्लोक:
अङ्गं गलितं पलितं मुण्डं
दशनविहीनं जातं तुण्डम् ।
वृद्धो याति गृहीत्वा दण्डं
तदपि न मुञ्चत्याशापिण्डम् ।।१५।।
पदच्छेद:
अङ्गं गलितं पलितं मुण्डं दशन+विहीनं जातं तुण्डम् वृद्ध: याति गृहीत्वा दण्डं
तत् अपि न मुञ्चति आशा+पिण्डम् |
पदपरिचय:
प्रथमवाक्यम्
क्रियासूचक-कर्तृपदम् = गलितम् [ अ. नपुं. प्र. एक. ]
कर्तृपदम् = अङ्गम् [ अ. नपुं. प्र. एक. ]
द्वितीयवाक्यम्
क्रियासूचक-कर्तृपदम् = पलितम् [ अ. नपुं. प्र. एक. ]
कर्तृपदम् = मुण्डम् [ अ. नपुं. प्र. एक. ]
तृतीयवाक्यम्
क्रियासूचक-कर्तृपदम् = जातम् [ अ. नपुं. प्र. एक. ]
क्रियासूचक-कर्तृविशेषणम् = दशन+विहीनम् [ अ. नपुं. प्र. एक. ]
कर्तृपदम् = तुण्डम् [ अ. नपुं. प्र. एक. ]
चतुर्थवाक्यम्
क्रियापदम् = याति [ या “या प्रापणे” पर. लट्. प्रपु. एक. ]
क्त्वान्त-वाक्यांश:
क्त्वान्तपदम् = गृहीत्वा [ ग्रह् “ग्रह उपादाने” + क्त्वा प्रत्यय:, अव्ययम् ]
कर्मपदम् = दण्डम् [ अ. पुं. द्वि. एक. ]
कर्तृपदम् = वृद्ध: [ अ. पुं. प्र. एक. ]
पञ्चमवाक्यम्
क्रियापदम् = न [अव्ययम्] मुञ्चति [मुच् “मुच्ऌ मोक्षणे” पर. लट्. प्रपु. एक.]
कर्तृपदम् = आशा+पिण्डम् [ अ. नपुं. प्र. एक. ]
वाक्यांश:
सम्योजकपदम् = तत् [ तद् द. नपुं. प्र. एक. ]
सम्योजकपदम् = अपि [ अव्ययम् ]
अन्वय:
अङ्गं गलितम् | मुण्डं पलितम् | तुण्डं दशन+विहीनं जातम् | (इत्यादिभि: विशिष्ट: ) वृद्ध: दण्डं गृहीत्वा याति | तत् अपि आशा+पिण्डं न मुञ्चति |
सार:
शरीरस्य प्रत्यंगं शिथिलं जातम् | शिर: जरसा शुक्लतां गतम्, मुखं दन्तरहितं जातम् | परसहायं विना गन्तुमशक्ता:, अतो वृद्ध: दण्डं गृहीत्वा याति | एतादृश्यवस्था शोचनीया जाता तथापि तृष्णामांसपिण्डमिदं शरीरं न मुञ्चति |
व्याकरणम्
सन्धि:
वृद्धो याति = वृद्ध: याति – विसर्गसन्धि:, उकारादेश: |
तदपि = तत् अपि – जश्त्वसन्धि: |
मुञ्चत्याशापिण्डम् = मुञ्चति आशापिण्डम् – यण् सन्धि: |
विग्रह:
दशनविहीनम् = दश्यते एभि: इति दशनानि | दशनै: विहीनम् |
Aga galita palita muṇḍa
daśanavihīna jāta tuṇḍam.
Vr̥d’dhō yāti gr̥hītvā daṇḍa
tadapi na muñcatyāśāpiṇḍam || 15 ||
Even though the limbs grow weak, the teeth fall down the mouth, the hair grows white, and the body be supported by a prop, one does not throw away the bundle of his desires even at the very old age, at the gate of death.
________________________
16. अग्रे वह्निः पृष्ठे भानुः – “भज गोविन्दम्” श्लोके स्थिता: केचित् व्याकरणविषयाः
श्लोक:
अग्रे वह्निः पृष्ठे भानुः
रात्रौ चुबुकसमर्पितजानुः ।
करतलभिक्षस्तरुतलवासः
तदपि न मुञ्चत्याशापाशः ।।१६।।
पदच्छेद:
अग्रे वह्निः पृष्ठे भानुः रात्रौ चुबुक+समर्पित+जानुः कर+तल+भिक्ष: तरु+तल+वासः तत् अपि न मुञ्चति आशा+पाशः |
पदपरिचय:
“यस्य” वाक्यांश:
क्रियापदम् = (भवति)
कर्तृपदम् = वह्निः [ इ. पुं. प्र. एक. ]
अधिकरणपदम् = अग्रे [ अ. नपुं. स. एक. ]
अधिकरण-संबन्द्-पदम् = (यस्य)
“यस्य” वाक्यांश:
क्रियापदम् = (भवति)
कर्तृपदम् = भानुः [ उ. पुं. प्र. एक. ]
अधिकरणपदम् = पृष्ठे [ अ. पुं. स. एक. ]
अधिकरण-संबन्द्-पदम् = (यस्य)
“य:” वाक्यांश:
क्रियापदम् = (भवति)
कर्तृपदम् = चुबुक+समर्पित+जानुः [ उ. पुं. प्र. एक. ]
कर्तृविशेषणम् = (य: )
अधिकरणपदम् = रात्रौ [ इ. स्त्री. स. एक. ]
“य:” वाक्यांश:
क्रियापदम् = (भवति)
कर्तृपदम् = कर+तल+भिक्ष: [ अ. पुं. प्र. एक. ]
कर्तृविशेषणम् = (य: )
“य:” वाक्यांश:
क्रियापदम् = (भवति)
कर्तृपदम् = तरु+तल+वासः[ अ. पुं. प्र. एक. ]
कर्तृविशेषणम् = (य: )
“तम्” वाक्यांश:
क्रियापदम् = मुञ्चति [मुच् “मुच्ऌ मोक्षणे” पर. लट्. प्रपु. एक.]
क्रियाविशेषणम् = न [ अव्ययम् ]
कर्तृपदम् = आशा+पाशः [ अ. पुं. प्र. एक. ]
कर्मपदम् = (तम्)
अन्वय:
(प्रभाते यस्य) अग्रे वह्निः (भवति), (यस्य) पृष्ठे भानुः (भवति), रात्रौ (य: ) चुबुक+समर्पित+जानुः (भवति), (य: ) कर+तल+भिक्ष: (भवति), (य: ) तरु+तल+वासः (भवति), तत् अपि आशा+पाशः (तं) न मुञ्चति |
सार:
प्रभाते पुरोभागे अग्नि: पृष्ठे अर्कस्य च ताप:, रात्रौ शैत्यात् जानुद्वयमध्ये चिबुकं समर्प्य शयनं, करतलरूपं भिक्षापात्रमादाय भिक्षाटनं, वृक्षच्छायायां वास: | एतादृश्याम् अवस्थायामपि नर: आशापाशेन बुद्धो जीवनाय आयतते |
व्याकरणम्
सन्धि:
करतलभिक्षस्तरुतलवासः= करतलभिक्ष: तरुतलवासः – विसर्गसन्धि:, सकार:
तदपि = तत् अपि – जश्त्वसन्धि: |
मुञ्चत्याशापाशः = मुञ्चति आशापाशः – यण् सन्धि: |
समास:
चुबुकसमर्पितजानुः = चुबुके समर्पिते जानुनी येन स: – बहुव्रीहि: |
करतलभिक्ष: = करस्य तलं करतलम् – षष्ठी तत्पुरुष: | तस्मिन् भिक्षा यस्य स: – बहुव्रीहि: |
तरुतलवासः= तरो: तलं तरुतलम् – षष्ठी तत्पुरुष: | तस्मिन् वास: यस्य स: – बहुव्रीहि: |
Agrē vahni pr̥ṣṭhē bhānu
rātrau cubuka samarpita jānu.
Karatalabhikastarutalavāsa
tadapi na muñcatyāśā pāśa || 16 ||
The silent mill of Time is grinding thee every moment. So be not proud of thy wealth, kith and kin or thy youth. Cut asunder the cords that bind thee to this unreal world and enter the blissful world of reality through proper course, understanding thy self.
________________________
17. कुरुते गङ्गासागरगमनम् – “भज गोविन्दम्” श्लोके स्थिता: केचित् व्याकरणविषयाः
श्लोक:
कुरुते गङ्गासागरगमनं
व्रतपरिपालनमथवा दानम् ।
ज्ञानविहीनः सर्वमतेन
भजति न मुक्तिं जन्मशतेन ।।१७।।
पदच्छेद:
कुरुते गङ्गा+सागर+गमनं व्रत+परिपालनम् अथवा दानम् ज्ञान+विहीनः सर्व+मतेन भजति न मुक्तिं जन्म+शतेन |
पदपरिचय:
“य:” वाक्यांश:
क्रियापदम् = कुरुते [ कृ “डुकृञ् करणे” उभ. लट्. प्रपु. एक. ]
कर्मपदम् = गङ्गा+सागर+गमनम् [ अ. नपुं. द्वि. एक. ]
कर्मपदम् = व्रत+परिपालनम् [ अ. नपुं. द्वि. एक. ]
कर्मपदम् = दानम् [ अ. नपुं. द्वि. एक. ]
सम्योजकपदम् = अथवा [ अव्ययम् ]
कर्तृपदम् = (य: )
“स:” वाक्यांश:
क्रियापदम् = भजति [ भज् “भज सेवायाम्” उभ. लट्. प्रपु. एक. ]
क्रियाविशेषणम् = न [ अव्ययम् ]
कर्मपदम् = मुक्तिम् [ इ. स्त्री. द्वि. एक. ]
कर्तृपदम् = ज्ञान+विहीनः [ अ. पुं. प्र. एक. ]
कर्तृविशेषणम् = (स: )
करण-वाचक-पदम् = जन्म+शतेन [ अ. नपुं. तृ. एक. ]
करण-वाचक-पदम् = सर्व+मतेन [ अ. नपुं. तृ. एक. ]
अन्वय:
(य: ) गङ्गा+सागर+गमनं, व्रत+परिपालनं, अथवा दानम् कुरुते, (स: ) ज्ञान+विहीनः सर्व+मतेन जन्म+शतेन (अपि) मुक्तिं न भजति |
सार:
य: पुण्यनद्यां गङ्गायां स्नानं कुरुताम्, अथवा प्रतानि अनुतिष्ठतु अथवा हस्ते लब्धं सर्वमपि परस्मै ददातु सर्वशास्त्रपारङ्गतोऽपि आत्मज्ञानविहीन: चेत् स: अनैकै: जन्माभिरपि मुक्तिं न लभते |
व्याकरणम्
सन्धि:
गङ्गासागरगमनं व्रतपरिपालनमथवा = गङ्गासागरगमनम् + व्रतपरिपालनम् – अनुस्वारसन्धि: |
मुक्तिं जन्मशतेन = मुक्तिम् + जन्मशतेन – अनुस्वारसन्धि:|
समास:
गङ्गासागरगमनम् = गङ्गा च सागरश्च गङ्गासागरौ – द्वन्द्वसमास: | तयो: गमनं गङ्गासागरगमनम् – षष्ठी तत्पुरुष: | तत् (द्वितीया विभक्ति: ) |
व्रतपरिपालनम् = व्रतस्य परिपालनम् – षष्ठी तत्पुरुष: | तत् (द्वितीया विभक्ति: ) |
ज्ञानविहीनः = ज्ञानेन विहीनः – तृतीयातत्पुरुष: |
Kurutē gagāsāgaragamana
vrataparipālana mathavā dāna.
ānavihīna sarvamatēna
bhajati na mukti janmaśatēna || 17 ||
No amount of pilgrimage or bath in holy rivers, nay the severe austerity nor immense charity leads one to salvation if he does not realize the self. Myriads of births will be of no avail unto him.
(Viveka Choodaamani: Vadantu shaastraani yajantu devaan, kurvantu karmaani bhajantu devataa, Aatmaikya bodhena vinaapi muktir na sidhyati brahmashataantarepi.
—“Let people quote the Scriptures and sacrifice to the gods, let them perform rituals and worship the deities, but there is no Liberation without the realization of one’s identity with the Atman, no, not even in the lifetime of a hundred Brahmas put together”).
________________________
18. सुरमंदिरतरुमूलनिवासः – “भज गोविन्दम्” श्लोके स्थिता: केचित् व्याकरणविषयाः
श्लोक:
सुरमंदिरतरुमूलनिवासः
शय्या भूतलमजिनं वासः .
सर्वपरिग्रहभोगत्यागः
कस्य सुखं न करोति विरागः ।। १८ ।।
पदच्छेद:
सुर+मंदिर+तरु+मूल+निवासः शय्या भूतलम् अजिनं वासः सर्व+परिग्रह+भोग+त्यागः कस्य सुखं न करोति विरागः |
पदपरिचय:
प्रथमवाक्यम्
क्रियापदम् = (अस्ति) |
कर्तृपदम् = सुरमंदिरतरुमूलनिवासः [ अ. पुं. प्र. एक. ]
द्वितीयवाक्यम्
क्रियापदम् = (अस्ति)
कर्तृ-विशेषण-सूचक-पदम् = भूतलम् [ अ. नपुं. प्र. एक. ]
कर्तृपदम् = शय्या [ आ. स्त्री. प्र. एक. ]
तृतीयवाक्यम्
क्रियापदम् = (अस्ति)
कर्तृ-विशेषण-सूचक-पदम् = अजिनम् [ अ. नपुं. प्र. एक. ]
कर्तृपदम् = वासः [ अ. पुं. प्र. एक. ]
चतुर्थवाक्यम्
क्रियापदम् = (अस्ति)
कर्तृपदम् = सर्वपरिग्रहभोगत्यागः [ अ. पुं. प्र. एक. ]
पञ्चमवाक्यम्
क्रियापदम् = करोति [ कृ “डुकृञ् करणे” उभ. लट्. प्रपु. एक. ]
क्रियाविशेषणम् =न [ अव्ययम् ]
कर्मपदम् =सुखम् [ अ. नपुं. प्र. एक. ]
वाक्यांश:
कर्तृपदम् = विरागः [ अ. पुं. प्र. एक. ]
सम्बन्ध-पदम् = कस्य [ किम् म. पुं. ष. एक. ]
अन्वय:
सुर+मंदिर+तरु+मूल+निवासः | (तस्य) शय्या भूतलम् | (तस्य) वासः अजिनम् | सर्व+परिग्रह+भोग+त्यागः | (एतादृश: ) विरागः कस्य सुखं न करोति ? (सर्वस्य सुखं करोति | )
सार:
देवालये वृक्षमूले वा निवास: | भूमावेव शयनम् | अजिनवसनम् | सर्वफलभोगत्याग: इत्येतादृश: विराग: सर्वेषां सुखं करोत्येवेत्यर्थ: | किंशब्दस्तु आक्षेपार्थक: न प्रश्नार्थक: | विरक्ति: एव सुखावहा | न तु रक्ति: इत वैराग्ये एव श्रद्धा आधेया |
व्याकरणम्
विग्रह:
सुरमंदिरतरुमूलनिवासः
सुराणां मन्दिरं सुरमन्दिरम् – षष्ठीतत्पुरुष: |
तरो: मूलं तरुमूलम् – षष्ठीतत्पुरुष: |
सुरमन्दिरं च तरुमूलं च सुरमंदिरतरुमूले – द्वन्द्व: |
सुरमंदिरतरुमूलयो: निवास: सुरमंदिरतरुमूलनिवासः – सप्तमीतत्पुरुष: |
सर्वपरिग्रहभोगत्यागः
सर्वेषां परिग्रहाणां भोगानां च त्याग: – षष्ठीतत्पुरुष: |
विराग:
विगत: राग: – गति समास: |
Suramandira tarumūlanivāsa
śayyā bhūtala majana vāsa.
Sarva parigraha bhōgatyāga
kasya sukha na karōti virāga || 18 ||
The one who resigns from the world, may he be living in temples or the shade of a tree, may he be rolling in the dust of the naked earth and may he be in the robes of dear skin, he enjoys the real bliss of renunciation.
________________________
19. योगरतो वा – “भज गोविन्दम्” श्लोके स्थिता: केचित् व्याकरणविषयाः
श्लोक:
योगरतो वा भोगरतो वा
सङ्गरतो वा सङ्गवीहीनः |
यस्य ब्रह्मणि रमते चित्तं
नन्दति नन्दति नन्दत्येव ।।१९।।
पदच्छेद:
योग+रत: वा भोग+रत: वा सङ्ग+रत: वा सङ्ग+वीहीनः यस्य ब्रह्मणि रमते चित्तं नन्दति नन्दति नन्दति एव ।
पदपरिचय:
प्रथमवाक्यम्
क्रियापदम् =(भवेत्)
कर्तृपदम् =योगरत: [ अ. पुं. प्र. एक. ]
कर्तृपदम् =भोगरत: [ अ. पुं. प्र. एक. ]
कर्तृपदम् =सङ्गरत: [ अ. पुं. प्र. एक. ]
कर्तृपदम् =सङ्गवीहीनः [ अ. पुं. प्र. एक. ]
सम्योजकपदम् = वा [ अव्ययम् ]
द्वितीयवाक्यम्
“यस्य” वाक्यांश:
क्रियापदम् =रमते [ रम् “रमु क्रीडायाम्” आ. लट्. प्रपु. एक. ]
वाक्यांश:
कर्मपदम् =चित्तम् [ अ. नपुं. द्वि. एक. ]
सम्बन्ध-पदम् = यस्य [ यद् द. पुं. ष. एक. ]
अधिकरणपदम् = ब्रह्मणि [ न. नपुं. स. एक. ]
(स: ) वाक्यांश:
क्रियापदम् =नन्दति [ नन्दु “टु नदि समृद्धौ” पर. लट्. प्रपु. एक. ]
क्रियाविशेषणम् =एव [ अव्ययम् ]
कर्तृपदम् =(स: )
अन्वय:
योग+रत: वा भोग+रत: वा सङ्ग+रत: वा सङ्ग+वीहीनः वा (भवेत्) | यस्य चित्तं ब्रह्मणि रमते, (स: ) नन्दति नन्दति नन्दति एव ।
सार:
नर: योगरत: (चित्तवृत्तिनिरोध: योग: ) वा लौकिकभोगेषु निमग्नो वा जीवितासक्तिरतो वा जीवितासक्तिरहितो वा अस्तु | यस्य पुरुषस्य चित्तं सदा परे ब्रह्मणि रमते स नित्यं नन्दति |
व्याकरणम्
सन्धि:
योगरतो वा = योगरत: वा – विसर्गसन्धि:, उकारादेश: |
भोगरतो वा = भोगरत: वा – विसर्गसन्धि:, उकारादेश: |
सङ्गरतो वा = सङ्गरत: वा – विसर्गसन्धि:, उकारादेश: |
नन्दत्येव = नन्दति एव – यण् सन्धि: |
विग्रह:
योगरत: = योगे रत: – सप्तमितत्पुरुषसमास: |
भोगरत: = भोगे रत: – सप्तमितत्पुरुषसमास: |
सङ्गरत: = सङ्गे रत: – सप्तमितत्पुरुषसमास: |
सङ्गवीहीनः= सङ्गेन विहीन: – तृतीयातत्पुरुषसमास: |
Yōgaratō vā bhōgaratō vā
sagaratō vā sagavīhīna |
yasya brahmai ramatē citta
nandati nandati nandatyēva || 19 ||
If one centres his thoughts on God, by deep meditation or by good deeds, either in company or alone, indeed he drinks the honey of Divine-hood.
________________________
20. भगवद्गीता किञ्चिदधीता – “भज गोविन्दम्” श्लोके स्थिता: केचित् व्याकरणविषयाः
श्लोक:
भगवद्गीता किञ्चिदधीता
गङ्गाजललवकणिका पीता ।
सकृदपि येन मुरारिसमर्चा
क्रियते तस्य यमेन न चर्चा ।।२०।।
पदच्छेद:
भगवत्+गीता किञ्चित् अधीता: गङ्गा+जल+लव+कणिका पीता: सकृत् अपि येन मुरारि+समर्चा क्रियते तस्य यमेन न चर्चा |
पदपरिचय:
प्रथमवाक्यम्
(येन) वाक्यांश:
कर्मविशेषण-सूचक-वाक्यांश:
(कर्मणि) क्रिया-गर्भ-कर्मपदम् = अधीता [ आ. स्त्री. प्र. एक. ]
क्रियाविशेषणम् = किञ्चित् [ अव्ययम् ]
(कर्मणि) कर्मपदम् =भगवत्+गीता [ आ. स्त्री. प्र. एक. ]
(कर्मणि) कर्तृपदम् = (येन)
(येन) वाक्यांश:
(कर्मणि) कर्मविशेषण-सूचक-पदम् = पीता [ आ. स्त्री. प्र. एक. ]
(कर्मणि) कर्मपदम् =गङ्गा+जल+लव+कणिका [ आ. स्त्री. प्र. एक. ]
(कर्मणि) कर्तृपदम् = (येन)
(येन) वाक्यांश:
(कर्मणि) क्रियापदम् =(क्रियते)
(कर्मणि) कर्मपदम् =मुरारि+समर्चा [ आ. स्त्री. प्र. एक. ]
(कर्मणि) कर्तृपदम् = (येन)
“तस्य” वाक्यांश:
(कर्मणि) क्रियापदम् =क्रियते [ कृ “डुकृञ् करणे” उभ. कर्मणि लट्. प्रपु. एक. ]
क्रियाविशेषणम् = न [ अव्ययम् ]
वाक्यांश:
(कर्मणि) कर्मपदम् =चर्चा [ आ. स्त्री. प्र. एक. ]
सम्बन्ध-पदम् = तस्य [ तद् द. पुं. ष. एक. ]
(कर्मणि) कर्तृपदम् = यमेन [ अ. पुं. तृ. एक. ]
अन्वय:
येन भगवत्+गीता किञ्चित् अधीता, येन गङ्गा+जल+लव+कणिका पीता, येन सकृत् अपि मुरारि+समर्चा (क्रियते), तस्य चर्चा यमेन न क्रियते |
सार:
येन भगवद्गीता किञ्चित् अधीता, गन्गाजललवकणिका पिता, एकवारमपि विस्नुपूजा च क्रियते, तस्य यम: चर्चां न करोति | मृत्युदेव: न तं मनसा अपि चिन्तयति | स: मरणम् अतिक्रम्य मुक्त: भवति इति अर्थ: |
व्याकरणम्
सन्धि:
किञ्चिदधीता = किञ्चित् अधीता – जश्त्वसन्धि: |
सकृदपि = सकृत् अपि – जश्त्वसन्धि: |
विग्रह:
गङ्गाजललवकणिका
गङ्गाया: जलं गङ्गाजलम् – षष्ठी तत्पुरुष: |
गङ्गाजलस्य लव: गङ्गाजललव – षष्ठी तत्पुरुष: |
गङ्गाजललवस्य कणिका गङ्गाजललवकणिका – षष्ठी तत्पुरुष: |
मुरारिसमर्चा
मुरस्य अरि: मुरारि: – षष्ठी तत्पुरुष: |
मुरारे: समर्चा मुरारिसमर्चा – षष्ठी तत्पुरुष: |
Bhagavadgītā kiñcidadhītā
gagājala lavakaikā pītā.
Sakr̥dapi yēna murārisamarcā
kriyatē tasya yī mēna na carcā || 20 ||
________________________
21. पुनरपि जननम्– “भज गोविन्दम्” श्लोके स्थिता: केचित् व्याकरणविषयाः
श्लोक:
पुनरपि जननं पुनरपि मरणं
पुनरपि जननीजठरे शयनम् ।
इह संसारे बहु दुस्तारे
कृपयाऽपारे पाहि मुरारे ।।२१।।
पदच्छेद:
पुनः अपि जननं पुन: अपि मरणं पुनः अपि जननीजठरे शयनम् इह संसारे बहु दुस्तारे कृपया अपारे पाहि मुरारे ।
पदपरिचय:
सम्बोधनपदम् = मुरारे [ इ. पुं. सम्. एक. ]
प्रथमवाक्यम्
क्रियापदम् =(भवति)
क्रियाविशेषणम् =पुनः [ अव्ययम् ]
कर्तृपदम् =जननम् [ अ. नपुं. प्र. एक. ]
कर्तृ-विशेषण-सूचक-पदम् = अपि [ अव्ययम् ]
द्वितीयवाक्यम्
क्रियापदम् =(भवति)
क्रियाविशेषणम् =पुनः [ अव्ययम् ]
कर्तृपदम् =मरणम् [ अ. नपुं. प्र. एक. ]
कर्तृ-विशेषण-सूचक-पदम् = अपि [ अव्ययम् ]
तृतीयवाक्यम्
क्रियापदम् =(भवति)
क्रियाविशेषणम् =पुनः [ अव्ययम् ]
कर्तृपदम् =शयनम् [ अ. नपुं. प्र. एक. ]
कर्तृ-विशेषण-सूचक-पदम् = अपि [ अव्ययम् ]
अधिकरणपदम् = जननीजठरे [ अ. पुं. स. एक. ]
चतुर्थवाक्यम्
क्रियापदम् =पाहि [ पा “पा रक्षणे” पर. लोट्. मपु. एक. ]
क्रियाविशेषणम् = कृपया [ अव्ययम् ]
कर्मपदम् =(माम्)
वाक्यांश:
अधिकरणपदम् = संसारे [ अ. पुं. स. एक. ]
अधिकरण-विशेषण-सूचक-पदम् = इह [ अव्ययम् ]
अधिकरण-विशेषण-वाक्यांश:
अधिकरणपदम् = दुस्तारे [ अ. पुं. स. एक. ]
अधिकरण-विशेषण-सूचक-पदम् = बहु [ अव्ययम् ]
अधिकरण-विशेषणम् = अपारे [ अ. पुं. स. एक. ]
कर्तृपदम् =(त्वम्)
अन्वय:
(हे) मुरारे ! पुनः अपि जननम् | पुन: अपि मरणम् | पुनः अपि जननीजठरे शयनम् | बहु दुस्तारे, अपारे, इह संसारे (त्वं) कृपया (माम्) पाहि ।
सार:
जननमरणात्मकसंसारचक्रे अज्ञानी पुन: पुनरावर्तते | दु:स्तारे तरितुम् अशक्ये अस्मिन् संसारे कृपया त्वं माम् अनर्थसंकरात् पाहि |
व्याकरणम्
सन्धि:
पुनरपि = पुनः अपि – विसर्गसन्धि: रेफादेश: |
कृपयाऽपारे = कृपया अपारे – पूर्वरुपसन्धि: |
विग्रह:
दुस्तारे = दु:खेन तरितुं शक्य: दुस्तार: | तस्मिन् |
मुरारे = मुरस्य अरि: मुरारि: | तस्य संबुद्धि: |
Punarapi janana punarapi maraa
punarapi jananījaharē śayanam.
Iha sansārē bahu dustārē
kr̥payā̕pārē pāhi murārē || 21 ||
O Lord Murari! Save me from the clutches of the unending cycle of birth, death and struggle in the womb of a mother. Bless me with thy grace. The worldly existence is very hard for me.
________________________
22. रथ्याचर्पटविरचितकन्थः – “भज गोविन्दम्” श्लोके स्थिता: केचित् व्याकरणविषयाः
श्लोक:
रथ्याचर्पटविरचितकन्थः
पुण्यापुण्यविवर्जितपन्थः ।
योगी योगनियोजितचित्तो
रमते बालोन्मत्तवदेव ।।२२।।
पाठभेद:
रथ्याकर्पटविरचितकन्थः
पुण्यापुण्यविवर्जितपान्थः ।
योगी योगनियोजितचित्तो
रमते बालोन्मत्तवदेव ।।२२।।
पदच्छेद:
रथ्या+चर्पट+विरचित+कन्थः पुण्य+अपुण्य+विवर्जित+पन्थः योगी योग+नियोजित+चित्त: रमते बाल+उन्मत्त+वत् एव |
पदपरिचय:
क्रियापदम् =रमते [ रम् “रमु क्रीडायाम्” आ. लट्. प्रपु. एक. ]
क्रियाविशेषणम् = बाल+उन्मत्त+वत् [ अव्ययम् ]
कर्तृपदम् =योगी [ न. पुं. प्र. एक. ]
कर्तृविशेषणम् =रथ्या+चर्पट+विरचित+कन्थः [ अ. पुं. प्र. एक. ]
कर्तृविशेषणम् =पुण्य+अपुण्य+विवर्जित+पन्थः [ अ. पुं. प्र. एक. ]
कर्तृविशेषणम् =योग+नियोजित+चित्त: [ अ. पुं. प्र. एक. ]
कर्तृ-विशेषण-सूचक-पदम् = एव [ अव्ययम् ]
अन्वय:
रथ्या+चर्पट+विरचित+कन्थः पुण्य+अपुण्य+विवर्जित+पन्थः योग+नियोजित+चित्त: योगी एव बाल+उन्मत्त+वत् रमते |
सार:
योगेन आत्मसाक्षात्कारसम्पन्न: रथ्यायां समुपलब्धेन जीर्णपटेन कन्थां धरन् उन्मत्त: पान्थ: इव पुण्यापुण्याभ्यां विवर्जितश्च सन् बाल इव उन्मत्त इव च लोकेऽस्मिन् क्रीडति |
व्याकरणम्
सन्धि:
बालोन्मत्तवदेव = बाल+उन्मत्त+वत् एव- जश्त्वसन्धि: |
योगनियोजितचित्तो रमते = योग+नियोजित+चित्त: रमते – विसर्गसन्धि: उकार: |
विग्रह:
रथ्याचर्पटविरचितकन्थः
रथ्याचर्पट: = रथ्याया: चर्पट: – षष्टितत्पुरुष:
रथ्याचर्पटेन विरचिता कन्था यस्य स: = रथ्याचर्पटविरचितकन्थः – बहुव्रीहि: |
पुण्यापुण्यविवर्जितपन्थः
विवर्जित: – विशेषेण वर्जित: |
पुण्यापुण्ये – पुण्यं च अपुण्यं च – द्वन्द्व: |
पुण्यापुण्यविवर्जित: – पुण्यापुण्याभ्यां विवर्जित: |
पुण्यापुण्यविवर्जितपन्थः – पुण्यापुण्यविवर्जित: पन्था यस्य स: – बहुव्रीहि |
योगनियोजितचित्त:
योगनियोजितचित्त: – योगे नियोजितं चित्तं येन स: – बहुव्रीहि |
बालोन्मत्तवत्
बालोन्मत्ताभ्यां तुल्यम् – बालोन्मत्तवत् |
Rathyācarpaaviracitakantha
puyāpuyavivarjitapantha |
Yōgī yōganiyōjitacittō
ramatē bālōnmattavadēva || 22 ||
The meditative, centred always in meditation, roams carefree like a child, wearing the rags picked up from streets, without the duality of even sin or virtue in his mind.
________________________
23. कस्त्वं कोऽहम्– “भज गोविन्दम्” श्लोके स्थिता: केचित् व्याकरणविषयाः
श्लोक:
कस्त्वं कोऽहं कुत आयातः
का मे जननी को मे तातः ।
इति परिभावय सर्वमसारम्
विश्वं त्यक्त्वा स्वप्नविचारम् ।।२३।।
पदच्छेद:
क: त्वं क: अहं कुत आयातः का मे जननी क: मे तातः इति परिभावय सर्वम् असारम् विश्वं त्यक्त्वा स्वप्न+विचारम् ।
पदपरिचय:
प्रथमवाक्यम्
प्रश्नवाचकपदम् = क: [ किम् म. पुं. प्र. एक. ]
कर्तृपदम् =त्वम् [ युष्मद् द. त्रि. प्र. एक. ]
द्वितीयवाक्यम्
प्रश्नवाचकपदम् = क: [ किम् म. पुं. प्र. एक. ]
कर्तृपदम् =अहम् [ अस्मद् द. त्रि. प्र. एक. ]
तृतीयवाक्यम्
प्रश्नवाचकपदम् = कुत: (कस्मात्) [ अव्ययम् ]
कर्तृपदम् =आयातः [ अ. पुं. प्र. एक. ]
चतुर्थवाक्यम्
प्रश्नवाचकपदम् = का [ किम् म. स्त्री. प्र. एक. ]
कर्तृपदम् =जननी [ ई. स्त्री. प्र. एक. ]
सम्बन्दपदम् = मे (मम) [ अस्मद् द. त्रि. ष. एक. ]
पञ्चमवाक्यम्
प्रश्नवाचकपदम् = क: [ किम् म. पुं. प्र. एक. ]
कर्तृपदम् =तातः [ अ. पुं. प्र. एक. ]
सम्बन्दपदम् = मे (मम) [ अस्मद् द. त्रि. ष. एक. ]
षष्ठवाक्यम्
क्रियापदम् =परिभावय [ परि + भू “भू सत्तायाम्” + णिजन्त: पर. लोट्. मपु. एक. ]
कर्म-वाक्यम्
कर्तृ-विशेषण-सूचक-पदम् = असारम् [ अ. नपुं. प्र. एक. ]
कर्तृपदम् =विश्वम् [ अ. नपुं. प्र. एक. ]
कर्तृविशेषणम् =सर्वम् [ अ. नपुं. प्र. एक. ]
सम्योजकपदम् = इति [ अव्ययम् ]
क्त्वान्त-वाक्यांश:
क्त्वान्तपदम् =त्यक्त्वा [ त्यज् “त्यज हानौ” + क्त्वा प्रत्यय:, अव्ययम् ]
कर्मपदम् = विश्वम् [ अ. नपुं. द्वि. एक. ]
कर्मविशेषणम् =स्वप्न+विचारम् [ अ. नपुं. द्वि. एक. ]
अन्वय:
क: त्वम् ? क: अहम् ? कुत: आयातः ? का मे जननी ? क: मे तातः ?
स्वप्न+विचारं विश्वम् त्यक्त्वा सर्वं विश्वम् असारम् इति परिभावय ।
सार:
त्वं क: ? अहं क: ? अहं कस्मात् देशात् आयात: ? मम जननी का? तात: क: ? स्वप्नमायासदृशमिदं जगत् त्यक्त्वा सर्वमिदं मातापित्रादिव्यवाहारजातं तुच्छमत एव न काम्यम् इति वारं वारं चिन्तय |
व्याकरणम्
सन्धि:
कस्त्वम् = क: त्वम् – विसर्गसन्धि:, सकार: |
कोऽहम् = को अहम् – पूर्वरुपसन्धि:, क: + अहम् – विसर्गसन्धि:, उकार: |
को मे = क: मे – विसर्गसन्धि:, उकार: |
विग्रह:
स्वप्नाविचारम् – स्वप्ने विचार: – सप्तमीतत्पुरुष: | तम् |
Kastva kō̕ha kuta āyāta
kā mē jananī kō mē tāta |
Iti paribhāvaya sarvamasāram
viśva tyaktvā svapnavicāram || 23 ||
Think deep who thou art and who am I. Wherefrom do we come? Who is thy mother and who is thy father? Thou will understand that every one is evanescent. Hence give up these dreamy ideas about the world renouncing all.
________________________
24. त्वयि मयि चान्यत्र– “भज गोविन्दम्” श्लोके स्थिता: केचित् व्याकरणविषयाः
श्लोक:
त्वयि मयि चान्यत्रैको विष्णु-
र्व्यर्थं कुप्यसि मय्यसहिष्णुः ।
भव समचित्तः सर्वत्र त्वं
वाञ्छस्यचिराद्यदि विष्णुत्वम् ।।२४।।
पाठभेद:
त्वयि मयि चान्यत्रैको विष्णुः
व्यर्थं कुप्यसि सर्वसहिष्णुः ।
सर्वस्मिन्नपि पश्यात्मानं
सर्वत्रोत्सृज भेदाज्ञानम् ।।२४।।
पदच्छेद:
त्वयि मयि च अन्यत्र एकः विष्णुः व्यर्थं कुप्यसि मयि असहिष्णुः भव समचित्तः सर्वत्र त्वं वाञ्छसि अचिरात् यदि विष्णुत्वम्।
पदपरिचय:
प्रथमवाक्यम्
क्रियापदम् =(अस्ति)
कर्तृ-विशेषण-सूचक-वाक्यांश:
कर्तृपदम् =एकः [ अ. पुं. प्र. एक. ]
अधिकरणपदम् = त्वयि [ युष्मद् द. त्री. स. एक. ]
अधिकरणपदम् = मयि [ अस्मद् द. त्री. स. एक. ]
स्थानवाचकपदम् = अन्यत्र [ अव्ययम् ]
सम्योजकपदम् = च [ अव्ययम् ]
कर्तृपदम् =विष्णुः [ उ. पुं. प्र. एक. ]
द्वितीयवाक्यम्
क्रियापदम् =कुप्यसि [ कुप् “कुप् क्रोधे” पर. लट्. मपु. एक. ]
क्रियाविशेषणम् = व्यर्थम् [ अव्ययम् ]
कर्तृपदम् =त्वम् [ युष्मद् द. त्री. प्र. एक. ]
कर्तृ-विशेषण-सूचक-वाक्यांश:
कर्तृपदम् =असहिष्णुः [ उ. पुं. प्र. एक. ]
अधिकरणपदम् = मयि [ अस्मद् द. त्री. स. एक. ]
तृतीयवाक्यम्
“यदि” वाक्यांश:
क्रियापदम् =वाञ्छसि [ वाञ्छ् “वाछि इच्छायाम्” पर. लट्. मपु. एक. ]
क्रियाविशेषणम् = अचिरात् [ अव्ययम् ]
कर्मपदम् =विष्णुत्वम् [ अ. नपुं. प्र. एक. ]
कर्तृपदम् =त्वम् [ युष्मद् द. त्री. प्र. एक. ]
सम्योजकपदम् = यदि [ अव्ययम् ]
(तर्हि) वाक्यांश:
क्रियापदम् =भव [भू “भू सत्तायाम्” पर. लोट्. मपु. एक. ]
कर्तृ-विशेषण-सूचक-पदम् = समचित्तः [ अ. पुं. प्र. एक. ]
कर्तृपदम् =त्वम् [ युष्मद् द. त्री. प्र. एक. ]
विषयवाचकपदम् = सर्वत्र [ अव्ययम् ]
अन्वय:
त्वयि मयि च अन्यत्रै एकः विष्णुः | असहिष्णुः त्वं व्यर्थं मयि कुप्यसि | यदि त्वं विष्णुत्वं अचिरात् वाञ्छसि (तर्हि) सर्वत्र समचित्तः भव |
सार:
विष्णु: व्यापनशील: सर्वव्यापि विष्णु: परमात्मैव सर्वशरीरेषु तथा प्रपञ्चे सर्वत्र च वर्तते | अतोत्वं अहं च एक एव | यदि परोऽस्ति तर्हि कोप: युज्यते | पराभावात् कोपादिकं न युज्यते इत्यर्थ: | त्वं अनामयं पदम् विष्णुत्वं मोक्षं वाञ्छसि चेत् सर्वत्र समचित्तो भव |
व्याकरणम्
सन्धि:
चान्यत्रैक: = च अन्यत्र – सवर्नदीर्घसन्धि: |
अन्यत्रैक: = अन्यत्र एक: – वृद्धिसन्धि: |
एको विष्णु: = एक: विष्णु: – विसर्गसन्धि: (सकार:) रेफ:, उकार:, गुण: |
विष्णुर्व्यर्थम् = विष्णु: व्यर्थम् – विसर्ग सन्धि:, रेफादेश: |
मय्यसहिष्णुः = मयि असहिष्णुः – यण्सन्धि: |
वाञ्छस्यचिरात् = वाञ्छसि अचिरात् – यण्सन्धि: |
अचिराद्यदि = अचिरात् यदि – जश्त्वसन्धि: |
विग्रह:
असहिष्णुः
सहिष्णुः = सोढुं शीलम् अस्य अस्ति इति |
असहिष्णुः = न सहिष्णुः – नञ् तत्पुरुष: |
Tvayi mayi cān’yatraikō viṣṇu-
rvyartha kupyasi mayyasahiṣṇu |
Bhava samacitta sarvatra tva
vāñchasyacirādyadi viṣṇutvam || 24 ||
________________________
25. शत्रौ मित्रे पुत्रे बन्धौ – “भज गोविन्दम्” श्लोके स्थिता: केचित् व्याकरणविषयाः
श्लोक:
शत्रौ मित्रे पुत्रे बन्धौ
मा कुरु यत्नं विग्रहसन्धौ
सर्वस्मिन्नपि पश्यात्मानं
सर्वत्रोत्सृज भेदाज्ञानम् ।।२५।।
पदच्छेद:
शत्रौ मित्रे पुत्रे बन्धौ मा कुरु यत्नं विग्रह+सन्धौ सर्वस्मिन् अपि पश्य आत्मानं सर्वत्र उत्सृज भेद अज्ञानम् ।
पदपरिचय:
प्रथमवाक्यम्
क्रियापदम् = कुरु [ कृ “डुकृञ् करणे” उभ. लोट्. मपु. एक. ]
क्रियाविशेषणम् = मा [ अव्ययम् ]
कर्मपदम् =यत्नम् [ अ. पुं. द्वि. एक. ]
विषयवाचकपदम् = विग्रह+सन्धौ [ इ. पुं. स. एक. ]
विषयवाचक-विशेषण-वाक्यांश:
विषयवाचकपदम् = शत्रौ [ उ. पुं. स. एक. ]
विषयवाचकपदम् = मित्रे [ अ. पुं. स. एक. ]
विषयवाचकपदम् = पुत्रे [ अ. पुं. स. एक. ]
विषयवाचकपदम् = बन्धौ [ उ. पुं. स. एक. ]
सम्योजकपदम् = (वा)
कर्तृपदम् = (त्वम्)
द्वितीयवाक्यम्
क्रियापदम् = पश्य [ दृश् “दृशिर् प्रेक्षणे” पर. लोट्. मपु. एक. ]
कर्मपदम् =आत्मानम् [ न. पुं. द्वि. एक. ]
कर्तृपदम् = (त्वम्)
वाक्यांश:
अधिकरणपदम् = सर्वस्मिन् [ सर्व अ. पुं. स. एक. ]
विशेषण-सूचक-पदम् = अपि [ अव्ययम् ]
तृतीयवाक्यम्
क्रियापदम् = उत्सृज [ उत् + सृज् “सृज विसर्गे” पर. लोट्. मपु. एक. ]
कर्मपदम् = भेद+अज्ञानम् [ अ. नपुं. द्वि. एक. ]
कर्तृपदम् = (त्वम्)
स्थानवाचकपदम् = सर्वत्र [ अव्ययम् ]
अन्वय:
शत्रौ मित्रे पुत्रे बन्धौ विग्रह+सन्धौ यत्नं मा कुरु | सर्वस्मिन् अपि आत्मानं पश्य |
सर्वत्र भेदाज्ञानम् उत्सृज ।
सार:
पुर्वाक्तार्थमेवानुवदति | शत्रो विरोधो न, मित्रे स्नेहोऽपि न | एवं पुत्र बन्धौ, विग्रहसन्धौ च यत्नं मा कुरु | भेदरूपमज्ञानं परित्यज्य निर्ममो निरहङ्कार: च भव|
व्याकरणम्
सन्धि:
सर्वस्मिन्नपि = सर्वस्मिन् अपि – ङमुडागमसन्धि: |
सर्वत्रोत्सृज = सर्वत्र उत्सृज – गुणसन्धि: |
भेदाज्ञानम् = भेद अज्ञानम् – सवर्नदीर्घसन्धि: |
समास:
भेदाज्ञानम् – भेदनिमित्तं अज्ञानम् – शाकपार्थिवादिसमास: (मद्यमपदलोप:) |
विग्रहश्च सन्धिश्च अनयोः समाहारः विग्रहसन्धि: – समाहारद्वन्द्वः ।
अन्य विषय:
विग्रहश्च सन्धिश्च अनयोः समाहारः विग्रहसन्धि: भवति | विग्रहसन्धिम् नास्ति | अमादेश is only for akaaraantas.
Actually, since it is compulsory neuter gender, the form should be विग्रहसन्धिनि।There is a rule तृतीयादिषु भाषितपुंस्कं पुंवद्गालवस्य, which gives neuter-words an optional form similar to the masculine word, but only when it is a भाषितपुंस्क। Probably here, since the word सन्धि is masculine, in the same meaning, the optional masculine form is used for the samaasa also.
Śatrau mitrē putrē bandhau
mā kuru yatna vigrahasandhau |
sarvasminnapi paśyātmāna
sarvatrōtsr̥ja bhēdāānam || 25 ||
Be impartial to thy friend, foe or son. Do not make distinction of them. With equal mind in all, thou attain the state of bliss very soon.
________________________
26. कामं क्रोधं लोभं मोहम्– “भज गोविन्दम्” श्लोके स्थिता: केचित् व्याकरणविषयाः
श्लोक:
कामं क्रोधं लोभं मोहं
त्यक्त्वाऽत्मानं पश्यति सोऽहम् |
आत्मज्ञानविहीना मूढा-
स्ते पच्यन्ते नरकनिगूढाः ।।२६।।
पाठभेद:
कामं क्रोधं लोभं मोहं
त्यक्त्वाऽत्मानं भावय कोऽहम् |
आत्मज्ञानविहीना मूढाः
ते पच्यन्ते नरकनिगूढाः ।।२६।।
पदच्छेद:
कामं क्रोधं लोभं मोहं त्यक्त्वा आत्मानं पश्यति स: अहम् आत्म+ज्ञान+विहीना: मूढाः ते पच्यन्ते नरक+निगूढाः
पदपरिचय:
प्रथमवाक्यम्
क्रियापदम् = पश्यति [ दृश् “दृशिर् प्रेक्षणे” पर. लट्. प्रपु. एक. ]
कर्मपदम् =आत्मानम् [ न. पुं. द्वि. एक. ]
कर्मविशेषण-वाक्यम्
कर्तृ-विशेषण-सूचक-पदम् = अहम् [ अस्मद् द. त्रि. प्र. एक. ]
कर्तृपदम् = स: [ तद् द. पुं. प्र. एक. ]
कर्तृपदम् = (आत्मज्ञ:)
क्त्वान्त-वाक्यांश:
क्त्वान्तपदम् =त्यक्त्वा [ त्यज् “त्यज हानौ” + क्त्वा प्रत्यय:, अव्ययम् ]
कर्मपदम् =कामम् [ अ. पुं. द्वि. एक. ]
कर्मपदम् =क्रोधम् [ अ. पुं. द्वि. एक. ]
कर्मपदम् =लोभम् [ अ. पुं. द्वि. एक. ]
कर्मपदम् =मोहम् [ अ. पुं. द्वि. एक. ]
द्वितीयवाक्यम्
क्रियापदम् = (भवन्ति)
कर्तृ-विशेषण-सूचक-पदम् = मूढाः [ अ. पुं. प्र. बहु. ]
कर्तृपदम् = आत्मज्ञान+विहीना: [ अ. पुं. प्र. बहु. ]
तृतीयवाक्यम्
क्रियापदम् = पच्यन्ते [ पच् “डुपचँष् पाके” उभ. कर्मणि लट्. प्रपु. बहु. ]
कर्तृपदम् = नरक+निगूढाः [ अ. पुं. प्र. बहु. ]
कर्तृविशेषणम् = ते [ तद् द. पुं. प्र. बहु. ]
अन्वय:
(आत्मज्ञ:) कामं क्रोधं लोभं मोहं त्यक्त्वा, स: अहम् (इति) आत्मानं पश्यति | आत्मज्ञान+विहीना: मूढाः | ते नरक+निगूढाः पच्यन्ते |
सार:
कामक्रोधादिषट्कं परित्यज्य आत्मस्वरूपविचारं कुरु | आत्मग्नानविहीना: आत्मयाथार्थ्यानभिज्ञा: मूढा: नरके निगूढा: | (नरकं प्रविष्टा:) बहुविधै: नारकैस्तापै: सन्तप्ता: पक्वतामापद्यन्ते | कामादिषट्कपरित्यागेनैव मन: शान्ति: ज्ञानादेव कैवल्यमिनि अस्मिन् श्लोके प्रतिपादयति |
व्याकरणम्
सन्धि:
त्यक्त्वाऽत्मानम् = त्यक्त्वा आत्मानम् – पूर्वरुपसन्धि: |
सोऽहम् = सो अहम् – पूर्वरुपसन्धि:, स: + अहम् – विसर्गसन्धि:, उकार: |
आत्मज्ञानविहीना मूढा: = आत्मज्ञानविहीना: मूढा: – विसर्गस्य लोप: |
मूढास्ते = मूढा: ते – विसर्गस्य सकारादेश: |
विग्रह:
आत्मज्ञानविहीना:
आत्मन: ज्ञानम् आत्मज्ञानम् – षष्टितत्पुरुष: |
आत्मज्ञानेन विहीन: आत्मज्ञानविहीन: – तृतीयातत्पुरुषसमास: | ते |
नरक+निगूढाः – नरके निगूढ: – सप्तमितत्पुरुष: | ते |
Kāma krōdha lōbha mōha
tyaktvā̕tmāna paśyati sō̕ham |
ātmajñānavihīnā mūḍhā-
stē pacyantē narakanigūḍhāḥ || 26 ||.
When thou get thyself clear of lust, anger, greed and ignorance, thou understand thy real self. Without self-realization, the ignorant marches towards hell, i.e., he whirls round in the cycle of birth and death.
________________________
27. गेयं गीतानामसहस्रम् – “भज गोविन्दम्” श्लोके स्थिता: केचित् व्याकरणविषयाः
श्लोक:
गेयं गीतानामसहस्रं
ध्येयं श्रीपतिरूपमजस्रम् |
नेयं सज्जनसङ्गे चित्तं
देयं दीनजनाय च वित्तम् ।।२७।।
पदच्छेद:
गेयं गीता+नाम+सहस्रं ध्येयं श्रीपति+रूपम् अजस्रम् नेयं सत्+जन+सङ्गे चित्तं
देयं दीन+जनाय च वित्तम् |
पदपरिचय:
पदपरिचय:
क्रियापदम् = (भवति)
क्रियाविशेषणम् = अजस्रम् [ अव्ययम् ]
वाक्यांश:
कर्मविशेषण-सूचक-पदम् = गेयम् [ अ. नपुं. प्र. एक. ]
कर्तृपदम् = गीता+नाम+सहस्रम् [ अ. नपुं. प्र. एक. ]
वाक्यांश:
कर्मविशेषण-सूचक-पदम् = ध्येयम् [ अ. नपुं. प्र. एक. ]
कर्तृपदम् = श्रीपति+रूपम् [ अ. नपुं. प्र. एक. ]
वाक्यांश:
कर्मविशेषण-सूचक-पदम् = नेयम् [ अ. नपुं. प्र. एक. ]
कर्तृपदम् = चित्तम् [ अ. नपुं. प्र. एक. ]
अधिकरणपदम् = सत्+जन+सङ्गे [ अ. पुं. स. एक. ]
वाक्यांश:
कर्मविशेषण-सूचक-पदम् = देयम् [ अ. नपुं. प्र. एक. ]
कर्तृपदम् = वित्तम् [ अ. नपुं. प्र. एक. ]
सम्प्रदानपदम् = दीन+जनाय [ अ. पुं. च. एक. ]
सम्योजकपदम् = च [ अव्ययम् ]
अन्वय:
(त्वया) अजस्रं गीतानामसहस्रं गेयं, श्रीपतिरूपम् ध्येयं, सज्जनसङ्गे चित्तं नेयं,
दीनजनाय वित्तम् देयं च (अस्ति) |
सार:
त्वं निरन्तरं भगवद्गिताध्ययनं कुरु तथा विष्णुसहस्रनामस्तोत्रं च सदा पठ | विष्णो: रूपं मनसा ध्याय सज्जनसङ्गे चित्तं नय | दीनजनाय धनादिकं च देहि इति |
व्याकरणम्
सन्धि: (समासे)
सज्जन:
सत् + जन: = सच् + जन:, श्चुत्वसन्धि: |
सच् + जन: = सज्जन:, जश्त्वसन्धि: |
समास:
गीतानामसहस्रम्
नामसहस्रम् = नाम्नां सहस्रम् – षष्टितत्पुरुष: |
गीतानामसहस्रम् = गीता च नामसहस्रं च अन्यो: समाहार: – समाहारद्वन्द्व: |
श्रीपतिरूपम्
श्रीपति: = श्रिय: पति: – षष्टितत्पुरुष: |
श्रीपतिरूपम् = श्रीपते: रूपम् – षष्टितत्पुरुष: |
सज्जनसङ्गे = सज्जनानां सङ्ग: – षष्टितत्पुरुष: | तस्मिन् |
दीनजनाय = दीन: च असौ जन: च दीनजन: – विशेषणपूर्वपदकर्मधारय: | तस्मै |

कृदन्त:
गेयम् – गा “गा स्तुतौ” + यत् प्रत्यय: – गातुं योग्यम् |
ध्येयम् – ध्यै “ध्यै चिन्तायाम्” + यत् प्रत्यय: – ध्यातुं योग्यम् |
नेयम् – नी “णीञ् प्रापणे” + यत् प्रत्यय: – नेतुं योग्यम् |
देयम् – दा “दाण् दाने” + यत् प्रत्यय: – दातुं योग्यम् |
Gēya gītānāmasahasra
dhyēya śrīpatirūpamajasram |
nēya sajjanasagē citta
dēya dīnajanāya ca vittam || 27 ||
Repeat the thousand names of the Lord. Contemplate on the divine personality of the Lord. Concentrate thy thoughts on the association of the Good. Give off thy possessions to the needy.
________________________
28. सुखतः क्रियते रामाभोगः – “भज गोविन्दम्” श्लोके स्थिता: केचित् व्याकरणविषयाः
श्लोक:
सुखतः क्रियते रामाभोगः
पश्चाद्धन्त शरीरे रोगः |
यद्यपि लोके मरणं शरणं
तदपि न मुञ्चति पापाचरणम् ।। २८ ।।
पदच्छेद:
सुखतः क्रियते रामाभोगः पश्चात् हन्त शरीरे रोगः यद्यपि लोके मरणं शरणं
तत् अपि न मुञ्चति पाप+आचरणम् |
पदपरिचय:
प्रथमवाक्यम्
(कर्मणि) क्रियापदम् = क्रियते [ कृ “डुकृञ् करणे” उभ. कर्मणि लट्. प्रपु. एक. ]
क्रियाविशेषणम् =सुखतः [ अव्ययम् ]
(कर्मणि) कर्मपदम् =रामाभोगः [ अ. पुं. प्र. एक. ]
द्वितीयवाक्यम्
उद्घोषणपदम् = हन्त [ अव्ययम् ]
क्रियापदम् = (भवति)
कर्तृपदम् =रोगः [ अ. पुं. प्र. एक. ]
कालवाचकपदम् = पश्चात् [ अव्ययम् ]
अधिकरणपदम् = शरीरे [ अ. पुं. स. एक. ]
तृतीयवाक्यम्
“यद्यपि” वाक्यांश:
क्रियापदम् =(भवति)
कर्तृ-विशेषण-सूचक-पदम् = शरणम् [ अ. नपुं. प्र. एक. ]
कर्तृपदम् =मरणम् [ अ. नपुं. प्र. एक. ]
अधिकरणपदम् = लोके [ अ. पुं. स. एक. ]
सम्योजकपदम् = यद्यपि [ अव्ययम् ]
“तत्” वाक्यांश:
क्रियापदम् =मुञ्चति [ मुच् “मुच्ऌ मोक्षणे” उभ. लट्. प्रपु. एक. ]
क्रियाविशेषणम् = न [ अव्ययम् ]
कर्तृपदम् =पाप+आचरणम् [ अ. नपुं. प्र. एक. ]
सम्योजकपदम् = तत् [ तद् द. नपुं. प्र. एक. ]
सम्योजकपदम् = अपि [ अव्ययम् ]
अन्वय:
सुखतः रामाभोगः क्रियते | हो हन्त ! पश्चात् शरीरे रोगः (भवति) | यद्यपि लोके मरणं शरणं, तत् अपि पाप+आचरणं न मुञ्चति |
सार:
जन: सुखार्थं स्त्रीभोगादिविषयेषु व्यापृतो वर्तते भोगे च कृते क्रमेण शरीरं विविधव्याधिना आक्रान्तं भवति | यद्यपि लोके मरणं शरणं तदापि नैमिषिक सुखाय मूढो लोक: पापकर्मम् अनवरतं करोत्येव |
व्याकरणम्
विग्रह:
रामाभोग: = रामाया: आभोग: – षष्ठीतत्पुरुष: |
शरीरे = शीर्यते इति शरीरम् | तस्मिन् |
पापाचरणम् = पापस्य आचरणम् – षष्ठीतत्पुरुष: |
Sukhata kriyatē rāmābhōga
paścād’dhanta śarīrē rōga |
yadyapi lōkē maraa śaraa
tadapi na muñcati pāpācaraam || 28 ||
Thou enjoy all conjugal pleasures so long as thou art strong and when thou attain old age thou art victim to diseases. Death is inevitable unto thee. Being aware of all these thou do not desist from sins.
________________________
29. अर्थमनर्थं भावय नित्यम् – “भज गोविन्दम्” श्लोके स्थिता: केचित् व्याकरणविषयाः
श्लोक:
अर्थमनर्थं भावय नित्यं
नास्ति ततः सुखलेशः सत्यम् |
पुत्रादपि धनभाजां भीतिः
सर्वत्रैषा विहिता रीतिः ।।२९।।
पदच्छेद:
अर्थं अनर्थं भावय नित्यं न अस्ति ततः सुख+लेशः सत्यं पुत्रात् अपि धन+भाजां भीतिः सर्वत्र एषा विहिता रीतिः ।
पदपरिचय:
प्रथमवाक्यम्
क्रियापदम् =भावय [ भू “भू सत्तायाम्” + णिजन्त: पर. लोट्. मपु. एक. ]
क्रियाविशेषणम् =नित्यम् [ अव्ययम् ]
कर्मविशेषण-सूचक-पदम् = अनर्थम् [ अ. पु. द्वि. एक. ]
कर्मपदम् =अर्थम् [ अ. पु. द्वि. एक. ]
कर्तृपदम् = (तवम्)
द्वितीयवाक्यम्
कर्तृपदम् = सत्यम् [ अ. नपुं. प्र. एक. ]
कर्म-वाक्यम्
क्रियापदम् = अस्ति [ अस् “अस भुवि” पर. लट्. प्रपु. एक. ]
क्रियाविशेषणम् = न [ अव्ययम् ]
कर्तृपदम् = सुख+लेशः [ अ. पुं. प्र. एक. ]
अपादानपदम् = ततः [ अव्ययम् ]
सम्योजकपदम् = (इति)
तृतीयवाक्यम्
वाक्यांश:
कर्तृपदम् = भीतिः [ इ. स्त्री. प्र. एक. ]
सम्बन्ध-विशेषण-पदम् = धन+भाजां [ अ. पुं. ष. बहु. ]
अपादानपदम् = पुत्रात् [ अ. पुं. प. एक. ]
अपादानविशेषणम् = अपि [ अव्ययम् ]
चतुर्थवाक्यम्
कर्तृ-विशेषण-सूचक-वाक्यांश:
कर्तृपदम् =रीतिः [ इ. स्त्री. प्र. एक. ]
कर्तृविशेषणम् =विहिता [ आ. स्त्री. प्र. एक. ]
कर्तृपदम् =एषा [ एतद् द. स्त्री. प्र. एक. ]
स्थानवाचकपदम् = सर्वत्र [ अव्ययम् ]
अन्वय:
अर्थं अनर्थं नित्यं भावय | ततः सुख+लेशः न अस्ति (इति) सत्यम् | पुत्रात् अपि धन+भाजां भीतिः (भवति) | सर्वत्र एषा विहिता रीतिः (भवति) ।
सार:
अर्थं अनर्थस्य कारणं भवति | तत: सुखलेशोऽपि न लभ्यत इत्येव सत्यम् | धनभाजां स्वपुत्रादपि भीति: वर्त्तते | सर्वत्र एषा रीति: विहिता | ईदृशी रीति: लोके दृष्टा इत्यर्थ: |
व्याकरणम्
सन्धि:
नास्ति = न + अस्ति – सवर्णदीर्घसन्धि: |
पुत्रादपि = पुत्रात् + अपि – जश्त्वसन्धि: |
सर्वत्रैषा = सर्वत्र + एषा – गुणसन्धि: |
विग्रह:
सुख+लेशः = सुखस्य लेश: सुखलेश: – षष्ठीतत्पुरुष: |
धन+भाजाम् = धनं भजन्ति इति धनभाज: | तेषाम् |
Arthamanartha bhāvaya nitya
nāsti tata sukhalēśa satyam |
putrādapi dhanabhājāṁ bhīti
sarvatraiṣā vihitā rīti || 29 ||
Be assured that wealth is a source of danger. There is not a bit of real happiness. Even the son is suspected by one who possesses wealth. He is ever in a state of terror. There is no exception to this state of affairs.
________________________
30. प्राणायामं प्रत्याहारम् – “भज गोविन्दम्” श्लोके स्थिता: केचित् व्याकरणविषयाः
श्लोक:
प्राणायामं प्रत्याहारं
नित्यानित्यविवेकविचारम् ।
जाप्यसमेतसमाधिविधानं
कुर्ववधानं महदवधानम् ।। ३० ।।
पदच्छेद:
प्राणायामं प्रत्याहारं नित्य+अनित्य+विवेक+विचारम् जाप्य+समेत+समाधि+विधानं
कुरु अवधानं महत् अवधानम् |
पदपरिचय:
प्रथमवाक्यम्
क्रियापदम् = कुरु [ कृ “डुकृञ् करणे” उभ. लोट्. मपु. एक. ]
क्रियाविशेषणम् =अवधानम् [ अ. नपुं. द्वि. एक. ]
कर्मपदम् = प्राणायामम् [ अ. पुं. द्वि. एक. ]
कर्मपदम् = प्रत्याहारम् [ अ. पुं. द्वि. एक. ]
कर्मपदम् = नित्य+अनित्य+विवेक+विचारम् [ अ. पुं. द्वि. एक. ]
कर्मपदम् = जाप्य+समेत+समाधि+विधानम् [ अ. नपुं. द्वि. एक. ]
कर्तृपदम् = (त्वम्)
द्वितीयवाक्यम्
क्रियापदम् = (कुरु)
वाक्यांश:
क्रियाविशेषणम् =अवधानम् [ अ. नपुं. द्वि. एक. ]
क्रियाविशेषण-विशेषणम् =महत् [ अ. नपुं. द्वि. एक. ]
कर्तृपदम् = (त्वम्)
अन्वय:
प्राणायामं प्रत्याहारं नित्य+अनित्य+विवेक+विचारम् जाप्य+समेत+समाधि+विधानं
अवधानं कुरु | महत् अवधानं (कुरु) |
सार:
प्राणायाम: इन्द्रियनिग्रह: नित्यानित्यवस्तुविवेक: जपसहितसमाधि: श्रद्धा च अतीव श्रद्धया त्वया कार्या: | प्राणायाम-प्रत्याहारौ योगङ्गत्वेन निर्दिष्टौ |
व्याकरणम्
सन्धि:
कुर्ववधानम् = कुरु अवधानम् – यण् सन्धि: |
महदवधानम् = महत् अवधानम् – जश्त्वसन्धि: |
समास:
जाप्यसमेतसमाधिविधानम्
जाप्यम् – जपसंबन्धौ आचरणम् |
समाधिविधानम् – समाधे: विधानम् |
जाप्यसमेतसमाधिविधानम् – जाप्येन समेतं समाधिविधानम् | तत्
Prāṇāyāma pratyāhāra
nityānityavivēkavicāram |
jāpyasamētasamādhividhāna
kurvavadhāna mahadavadhānam || 30 ||
Thou hast discharged the duty of thy existence in this world if thou attain the very difficult state of (samaadi) tranquility, controlling the breath and food and cognizing the real from the unreal.
________________________
31. गुरुचरणाम्बुजनिर्भरभक्तः – “भज गोविन्दम्” श्लोके स्थिता: केचित् व्याकरणविषयाः
श्लोक:
गुरुचरणाम्बुजनिर्भरभक्तः
संसारादचिराद्भव मुक्तः ।
सेन्द्रियमानसनियमादेवं
द्रक्ष्यसि निजहृदयस्थं देवम् ।। ३१ ।।
पदच्छेद:
गुरु+चरण+अम्बुज+निर्भर+भक्तः संसारात् अचिरात् भव मुक्तः सेन्द्रिय+मानस+नियमात् एवं द्रक्ष्यसि निज+हृदयस्थं देवम् |
पदपरिचय:
प्रथमवाक्यम्
क्रियापदम् =भव [भू “भू सत्तायाम्” पर. लोट्. मपु. एक. ]
क्रियाविशेषणम् =अचिरात् [ अव्ययम् ]
कर्तृ-विशेषण-सूचक-पदम् = मुक्तः [ अ. पुं. प्र. एक. ]
कर्तृपदम् = (त्वम्)
कर्तृविशेषणम् = गुरु+चरण+अम्बुज+निर्भर+भक्तः [ अ. पुं. प्र. एक. ]
अपादानपदम् = संसारात् [ अ. पुं. प. एक. ]
कारणवाचकपदम् = सेन्द्रिय+मानस+नियमात् [ अ. पुं. प. एक. ]
द्वितीयवाक्यम्
क्रियापदम् = द्रक्ष्यसि [ दृश् “दृशिर् प्रेक्षणे” पर. लिट्. मपु. एक. ]
क्रियाविशेषणम् = एवम् [ अव्ययम् ]
कर्मपदम् = देवम् [ अ. पुं. द्वि. एक. ]
कर्मविशेषणम् = निज+हृदयस्थम् [ अ. पुं. द्वि. एक. ]
कर्तृपदम् = (त्वम्)
अन्वय:
गुरु+चरण+अम्बुज+निर्भर+भक्तः (त्वं) सेन्द्रिय+मानस+नियमात् संसारात् अचिरात् मुक्तः भव | एवं (त्वं) निज+हृदयस्थं देवं द्रक्ष्यसि |
सार:
गुरो: पादाम्बुजे अव्याजदृढभक्तियुक्त: जितेन्द्रिय: नियतचित्तश्च सन् अचिरात् जनिमृतिरूपात् संसारात् मुक्तो भव | एवं जीवन्मुक्त: चेत् हृदयस्थितं परमात्मानं द्रक्ष्यसि |
व्याकरणम्
सन्धि:
संसारादचिरात् = संसारात् + अचिरात्
अचिराद्भव = अचिरात् + भव
सेन्द्रियमानसनियमादेवम् = सेन्द्रियमानसनियमात् + एवम्
विग्रह:
गुरुचरणाम्बुजनिर्भरभक्तः
निर्भरभक्तः – निर्भरा भक्ति: यस्य स: – बहुव्रीहि: |
गुरुचरणाम्बुजम् – गुरुचरणमेव अम्बुजम् – अवधारणा-पूर्वपद-कर्मधारय: |
गुरुचरणाम्बुजनिर्भरभक्तः – गुरुचरणाम्बुजे निर्भरभक्तः – सप्तमितत्पुरुष: |
सेन्द्रियमानसनियमात्
सेन्द्रियमानसम् – इन्द्रियेण सहितं मानसम् | (स + इन्द्रिय = सेन्द्रिय – वृद्धिसन्धि: )
सेन्द्रियमानसनियम: – सेन्द्रियमानसस्य नियम: – षष्ठीतत्पुरुष: |
सेन्द्रियमानसनियमात् – तस्मात् |
निजहृदयस्थम्
निजहृदयम् – निजं हृदयम् |
निजहृदयस्थ: – निजहृदये तिष्ठतीति |
निजहृदयस्थम् – तम् |
Gurucaraṇāmbujanirbharabhakta
sansārādacirādbhava mukta |
sēndriyamānasaniyamādēva
drakyasi nijahr̥dayastha dēvam || 31 ||
With increasing devotion surrender thyself at the feet of thy Guru (the Lord). Thou attain salvation, relieved from the bondages of the world. Thou perceive the Lord in thy heart when thou bring under control thy body and mind. Thus thou cut down the tree of transmigration.